SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्री-प्रभाचन्द्र-कृतः [४०] रुद्रपाराशरेत्यादि। [रुद्दो परासरो सच्चई य रायरिसी देवपुत्तो य। महिलारूवा लोई णट्ठा संसत्तदिट्ठीए ॥११०१।।] रुद्रस्य सात्यकिकथा प्रघट्टके कथा भविष्यति । पाराशरस्य लौकी कथा हस्तिनागपुरे गङ्गभटधीवरेण महामत्सी जालेन धृत्वा ६ तदुदरे विपाटयमाने रूपवती कन्या दुर्गन्धा निर्गता सत्यवतीति नामा कृत्वा पोषिता। एकदा गङ्गभटेनावशे सत्यवती च धृत्वा गङ्गभटो गृहं गतः । मध्याह्ने दुरादागतेन शान्तेन पाराशरमुनिना ९ द्वितीयतटस्थिता आकारिता सा-पुत्रि, शीघ्रमेहि मामुत्तारयेति । आगत्य तया गङ्गामध्ये नीयमानेन तेन तस्या रूपमालोक्य क्षुभि तेनोक्तम्-मामिच्छ । तयोक्तम्-दुर्जातिर्दुर्गन्धा चाहं त्वं च महा१२ तपस्वी शापानुग्रहसमर्थ इति । ततस्तस्या दुर्गन्धतामपनीय कुवलय गन्धता कृता । पुनरपि तयोक्तम् । लोकाः पश्यन्ति । ततो धूमरी कृता। नौमध्ये कामसेवां कुर्वाणा न जीवामीत्युक्ते तेन द्वीपं कृत्वा १५ परिणीता सेविता च । तत्क्षणे पञ्चकूर्चजटायज्ञोपवीतादियुक्तो व्यासनामा पुत्रो जातो ऽभिवादनं कृतवान् ।। [४१] सात्यकिरुद्रयोः कथा । १८. गन्धारदेशे महेश्वरपुरे राजा सत्यंधरो, राज्ञी सत्यवती, पुत्रः सात्यकिः । सिन्धुदेशे विशालानगर्यां राजा चेटको, राज्ञी सुभद्रा, सप्तपुत्र्यः प्रियकारिणी सुप्रभा प्रभावती मृगावती ज्येष्ठा चेलिनी २१ चन्दना चेति । श्रेणिकनिमित्तमभयकुमारेण नोयमानया चेलिन्या सुरङ्गद्वारे आभरणव्याजेन वञ्चिता ज्येष्ठा । चेटकभगिनी यशस्विनी कन्तिकासमीपे आर्यका जाता। सा च सात्यकेर्दत्ता आसीत् । अतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy