________________
तत्र- निर्व्रन्थीनामुपाश्रये श्रकारणं वच्यमाणकारणकलापं वि नागमनं यत्प्रतीत्य इदं सूत्रं समुदितं समायातं तदनेन प्रतिविध्यते इति भावः । अथ कार्येण तत्र गताः, ततो गते - गमने पुनः संजाते त्वग्वर्तनादीनि कर्तुं वारयति अनेन संबन्धेनायातस्यास्य (१) व्याख्या-नो कल्पते निर्मन्थानां, निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषतुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विधमप्याहारमाहर्तुम्, उच्चारं वा प्रश्रवणं वा खेलं वा सिंघाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम्, ध्यानं वा ध्यातुम्, कायोत्सर्गे वा स्थातुमिति सूत्रसंक्षेपार्थः । अथ विस्तरार्थे भाष्यकृद्विभणिपुराहआपुच्छमणापुच्छा, व अको चउगुरुं तु वच्चंते ।
पुच्छियपडिसिद्धे सुद्धा लग्गा उबेहंती ॥ ४ ॥ स्थविराणामापृच्छया अनापृच्छया वा यद्यकार्ये निर्ग्रन्थीनामुपाश्रयं व्रजति ततश्चतुर्गुरुकम् । स्थविरा श्रपृष्टाः सन्तो यदि प्रतिषेधं कुर्वन्ति-मा व्रज नैव वर्तते निष्कारणं निर्ग्रन्थीनामुपाश्रयं गन्तुम्, एवं प्रतिषिद्धे स्थविरा शुद्धाः-न प्रायचितभाजः । श्रथ स्थविरा उपेक्षन्ते ततस्तेऽपि लग्नाःचतुर्गुरुकमापना इत्यर्थः ।
(२०३६) अभिधानराजेन्द्रः ।
अथवा
चउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य । आयरिए अभिसेगे, भिक्खुम्मि य गीतगीतत्थे ॥ ५ ॥ आचार्यो यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततचत्वारो गुरवः । अभिषेको वजति चत्वारो लघवः, गीताभिर्वजति गुरुको मास, अगीतार्थभिक्षुर्वजति लघुको
मासः ।
यद्वा
गमसे दूरे संकिय, खिस्संकभिलावकक्खसतिकरणं । प्रभासखपडिसुणणे, संपत्तारोवणा भणिता ॥ ६ ॥ निष्कारणं संयतीनामुपाश्रये गच्छति तत्र गतो दूरे स्थितः संयतः पश्यति १ एतास्ता इति २, कतरा पुनरियमित्येवं शङ्कां करोति ३ श्रमुका वा इयमिति निःशङ्कितं जानाति ४, संयतीभिः सममभिलापं करोति ५, कक्षान्तरादीनि विलोकयति ६, स्मृतिकरणमीदृशी मम स्यादिति लक्षणं करोति ७, तामवभाषते ८, अथ भाषिता सती सा प्रतिशृणोति, संपत्ति तथा सह करोति १०, एतेषु दशसु स्थानेध्वारोपणा वक्ष्यमाणा भणिता ।
अथात्र स्मृतिकरणपदं व्याचष्टे
Jain Education International
भावम्मि उ संबन्धो, सतिकरणं एरिसा व सा श्रासी । श्रवाणं इणम, पणएमि सती भवइ एसा ॥ ७ ॥ भावे-भावतः प्रतिसेवनाभिप्रायेण तया सह यः संबन्धः क्रि यते यादृशी त्वम्-ईदृशी सा मद्भार्या आसीत्, एतत् स्मृतिकरणमुच्यते । अथवैतां संयतीमहममुमर्थे - प्रति सेवनालक्षणं प्रणयामि - प्रार्थयामीत्येषा स्मृतिरुच्यते ।
अथवा अनन्तरोक्तेषु दशसु स्थानेषु प्रायश्चित्तमाहचउरो य अणुग्धाया, लहुगो लहुगा य होंति गुरुगा य । छम्मासा लघु गुरुगा, छेदो मूलं तह दुगं च ॥ ८ ॥
For Private
बसहि
संयतीप्रतिश्रयगमने चत्वारो अनुद्धाता मासाः, दूरदर्शने मासलघु, शङ्कायां चतुर्लघवः, निःशङ्किते चतुर्गुरवः, श्रालापे परामासा गुरवः, स्मृतिकरणे छेदः, अवभाषसे मूलम्, प्रतिश्रवणे अनवस्थाप्यम्, संपत्त्यां पाराञ्चिकम् । एवं तावदोघतः प्रायश्चित्तमुक्तम् ।
अथ विभागतस्तदेव दर्शयितुमाहणिकारणमणम्मि, बहवे दोसा य पच्चवाया य । जिथेरपडिकुडा, तेसिं चाऽऽरोवणा इणमो ॥६॥ निष्कारणगमने बहवो दोषाश्च प्रत्यपायाश्च भवन्ति । तत्र दोषा आत्मपरोभयसमुत्थाः, पारलौकिकाः प्रत्यपायाश्च । भोगिनी घाटितया इह लौकिकाः, तत्रोभयेऽपि जिनैस्तीर्थकृद्भिः स्थविरैश्च गणधरादिभिः प्रतिकुष्टाः, यथाऽमी भवन्ति तथा न विधेयमित्युपदिष्टसिति भावः । तेषां च दोषाणामियं वक्ष्यमाणा आरोपणा - प्रायश्चित्तम् । तश्चैतेषु सूत्रोक्लपदेषु भवति ।
चिट्ठित्तु खिसीइत्ता, तुयट्टणिद्दा य पयलसज्झाए । झाणाऽऽहारविहारे, पच्छित्ते मग्गणा होइ ॥ १०॥ स्थातुं निषतुं च त्वग्वर्तनं निद्रां प्रचलां स्वाध्यायं ध्यानम् आहारं वा कर्तु विहारं चंक्रमणमुपलक्षणत्वादुच्चारप्रश्रवणे कायोत्सर्गे वा कर्तु न कल्पते । अथ करोति ततः प्रायश्चित्तस्य मार्गणा भवति । इदमेव प्रकटयति
एतेसिं तु पयाणं, पत्तेयपरूवणा विभागो य । जो एत्थं श्रवमो - Sणावस्मो वाऽवि जो एत्थं ॥११॥ एतेषां स्थापनादीनां प्रत्येकं प्ररूपणा विभागा दोषाणां विभाषालक्षणः कर्तव्यः । कथमित्याह-योऽत्र दोषजालेप्रायश्चितजाले वा आपनो यो वा अनापन्नस्तदेतद्वक्तव्यम् । यथाप्रतिज्ञातमेव निर्वाहयतिनिकारणमविहीए, गिकारणओ तहेव य विहीए । कारण अविहीए, कारणतो चेव य विहीए || १२ || आदिभयाण aिri, अष्पतरीए उ संजतीसेअं । जे भिक्खू पविसेजा, सो पावति श्रखमादीति ॥ १३ ॥ साध्वीप्रतिथये प्रविशतां चत्वारो भङ्गाः । तद्यथा-निकारणे अविधिना साध्वीप्रतिश्रये, निष्कारणं विधिना, कारणतोऽविधिना, कारणतो विधिना प्रविशति । अत्रादिभजनानामाद्यानां त्रयाणां भङ्गानामम्यतरया भजनयाभङ्गकेन संयतीनां शय्यां वसति यो भिक्षुः प्रविशति स शादीनि दूषणानि प्राप्नोति ।
तत्र प्रथमभङ्गव्याख्यानार्थमाहनिकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं ।
चलयदार मूले, अतिगयमित्ते गुरू पुच्छा ॥ १४ ॥ त्रीणि स्थानानि नाम - श्रग्रद्वारमध्यासन्नलक्षणानि एतेषु नैषेधिकमकुर्वतस्त्रीणि मासगुरुकानि भवन्ति । यदि द्वारमूले-द्वारसमीपे बहिस्तिष्ठति ततः चतुलघवः । अथैकमपि पदमुपाश्रयमध्ये अतिगतं प्रविष्टस्तदा प्रतिगतमात्रे चतुर्गुरुकः । पृच्छति-नौदकः पृच्छां करोति ।
Personal Use Only
www.jainelibrary.org