________________
(७६२) अभिधानराजेन्द्रः।
पवज्जा
पवजा
तत्तथा कर्तव्यं त्वया यथा तच्छेषं प्राप्नोषि स्तोककालेन । किमित्यत आह शीलस्य नास्त्यसाध्यं जगति तत्प्राप्त त्वया, प्रवज्या प्रतिपन्नेति गाथाऽर्थः । लबूण सीलमेअं, चिंतामणिकप्पपायमभहिअं। इह परलोए अतहा, सुहावहं परममुणिचरिअं॥१६२॥ लब्ध्या शीलमेतत्किविशिष्टमित्याह -चिन्तामणिकल्पपादपाभ्यधिक निर्वाणहेतुत्वेन । एतदेवाऽऽह इहलोके परलोके च तथा सुखावहं परममुनिभिश्चरितमासेवितमिति गाथाऽर्थः। एअम्मि अप्पमात्रओकायव्यो सइ जिर्णिदपन्नते। भावेअव्वं च तहा, विरसं संसारणेगुम ।। १६३ ॥ एतस्मिन् शीले अप्रमादो यतातिशयः कर्त्तव्यः सदा सर्वकालं जिनेन्द्रप्रशते तीर्थकरप्रणीते अप्रमादोपायमेवाऽऽहभावयितव्यं च तथा शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथाऽर्थः ।
आह विरइपरिणामो, पव्वज्जा भावो जिणाएसो।। जं ता तह जइअव्वं,जह सो होइ त्ति किमणेणं ॥१६॥
आह परः, किमाह-विरतिपरिणामः सकलसावद्ययोगवि. निवृत्तिरूपः प्रव्रज्ज्या भावतः परमार्थतो जिनाऽऽदेशः अर्हद्व वनमित्थं व्यवस्थितमिाते यद् यस्मादेवं तत्तस्मात्तथा यतितव्यम् तथा प्रयत्नः कार्यों यथाऽसौ विरतिपरिणामो भवतीति किमनेन चैत्यवन्दनाऽऽदिक्रियाकलापेनेति गाथाऽर्थः।
परश्च स्वपक्षं समर्थयन्नाहसुबइ अ एअवइअर-विरहेणं भरहमाईणं । तयभावम्मि अभाओ, भणियो केवलस्स सुए।१६।। श्रूयते च एतद्यतिकरविरहेणाऽपि चैत्यवन्दनाऽऽदिसंबन्धमन्तरेणापिस विरतिरूपपरिणाम इह जिनशासने भरताss. दीनां महासत्पुरुषाणामिति । कथमिति चेदुच्यते-तदभावे विरतिपरिणामाभावे भावतः अभावोऽसंभवः यद्यस्माद्भणित उक्तः केवलस्य श्रुते प्रवचन इति गाथाऽर्थः। संपादिए वि अ तहा, इमम्मि सो होइ नत्थि एअं पि । अंगारमहगाई, जेण पवजंत अभव्या वि ॥ १६६ ॥ संपादितेऽपि च तथा तस्मिश्चैत्यवन्दनाऽऽदौ व्यतिकरे सति स विरतिपरिणामो भवति । नास्त्येतदप्यत्राप्यनियम एवेति । एतदेवाऽऽह-अङ्गारमईकाऽऽदयो येन कारणेन प्र. तिपाद्यन्ते अधिकृत्य व्यतिकरमभव्या अपि. श्रासतां तावदन्य इति गाथाऽर्थः । किंच-तञ्चैत्यवन्दनाऽऽदि विधिना सामायिका रोपणे सति वा विरतिपरिणामे क्रियेत नेति वा, उभयथाऽपि दोषमाहसइ तम्मि इमं विहलं, असइ मुसावायगो गुरुस्सावि । तम्हा न जुत्तमेअं, पब जाए विहाणं तु ।। १६७ ।। सति तस्मिन्धिरतिपरिणामे,इदं चैत्यवन्दनाऽऽदि विधिना सामायिकाऽरोपणं, विकलं भावत एव तस्य विद्यमानत्वादम्यथा ताविव असत्यविद्यमाने विरतिपरिणामे सामायिकाऽऽरोपणं कुर्वतः मृषावाद एव गुरोरपि असदभ्यारोपणाइपिशब्दाच्छिण्यस्यापि । श्रथ ताविव प्रतिपत्तेर्यस्मादेवं त
स्मान्न युक्तमतचैत्यवन्दना दिविधिना सामायिकाऽऽरोपणरूपं प्रवज्याया विधानमेवमुभयथाऽपि दोषदर्शनादिति गाथाऽर्थः । एष पूर्वपक्षः।
अनोत्तरमाहसञ्च खु जिणाएसो, विरईपरिणामो उ पव्वजा । एसो तस्स उवाओ, पायं ता कीरइ इमं तु ॥१६८।। सत्यमेव जिनाऽऽदेशो जिनवचनमित्यंभूतमेव, यदुत विरतिपरिणाम एव प्रवज्या नाऽन्यथाभावः। तथाऽप्यधिकृतविधानमबध्यमेवेत्येतदाह-एष पुनश्चैत्यवन्दनाऽऽदिविधिना सामायिकाऽऽरोपणब्यतिकरस्तस्य विरतिपरिणामस्यापायो हेतुः प्रायो बाहुल्येन यद्यस्मात् तस्माक्रियत एवेद चैत्यवन्दनाऽऽदिप्रव्रज्याविधानमिति गाथाऽर्थः ।
उपायतामाहजिणपसत्तं लिंग, एसो उ विही इमस्स गहणम्मि । पत्तो मए त्ति सम्मं, चिंतेतस्सा तो होइ ॥ १६६ ॥ जिनप्रशप्तं लिङ्ग तीर्थकरप्रणीतमेव तत् साधुचि रजोहरणमिति । एष च चैत्यवन्दनाऽऽदिलक्षणो विधिरस्य लि. ङ्गस्य ग्रहणे अङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चि. न्तयतः सतः शुभभावत्वादसौ विरतिपरिणामो भवतीति गाथाऽर्थः।
कथं गम्यत इति चेदुच्यतेलक्खिज्जइ कजेणं, जम्हा तं पाविऊण सप्पुरिसा। नो सेवंति अकजं, दीसइ थोवं पि पाएणं ॥ १७० ॥ लक्ष्यते गम्यते कार्येणाऽसौ विरतिपरिणामः, कथमित्या. ह-यस्मात्तं चैत्यवन्दनपुरस्सरं सामायिकाऽऽरोपणविधि संप्राप्य सत्पुरुषाः महासत्वाः प्रव्रजिताः, वयमिति, न सेवन्ते अकार्य परलोकविरुद्ध किश्चित् दृश्येतत्प्रक्षेपेणैवोपलभ्यत एतत् स्तोकमप्यकार्य प्रायशो बाहुल्येन न सेवन्ते, अतो विपरिणामसामर्थ्यमेतदिति गाथाऽर्थः। साम्प्रतं यदुक्तं श्रूयते चैतद्यतिकरविरहेणापि स इह भ
रताऽऽदीनामित्येतत्परिजिहीषुराह.. आहच्च भावकहणं, नय पात्रो जुञ्जए इहं काउं। ववहारनिच्छया जं, दोनिवि सुत्ते समा भणिया ।१७१। कदाचित्कभावकथनं भरताऽऽदिलक्षणं न च प्रायो युज्यते इह विचारे कर्तुम् किमित्यत आह व्यवहारनिश्चयो यतो न. यौ द्वावपि सूत्रे समौ भणिती प्रतिपादिता भगवद्भिरिति गाथाऽर्थः।
एतदेवाऽऽहजइ जिणमयं परजह, तो मा ववहारणिच्छए मुयह । ववहारणउच्छेए, तित्थुच्छेओ जोऽवस्सं ॥१७२।। यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुश्चत महाशिष्टाः। किमित्याह-व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यमतो व्यवहारतोऽपि प्रवजित एव गाथाऽर्थः ।
एतदेव समर्थयति-- ववहारपवत्तीय वि, सुहपरिणामो तो अकम्मस्स । निअमेणमुवसमाई, णिच्छयणयसम्मयं तत्तो ॥१७३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org