________________
(४११) अभिधानराजेन्धः ।
पत्त
पत्त
कपात्राऽऽनीतमेकस्यात्मनो भवति, प्राचार्याऽऽदीनां किं ददातु, कुत्र च तेषां प्रायोग्यं गृह्णातु ततस्ते एवं परित्यक्ताः।
अत्र पूर्वार्द्धव्याख्यानार्थमाहदेंते तेसिं अप्पा,जढो उ आदाणे ते जढा जं च । कुजा कुलालगहणं, वया जढा पाणगहणम्मि ॥२२०॥ तेषामध्वनिर्गतानां ग्लानानां च ददति आत्मा परित्यक्तो भवति,अदाने ते अध्वनिर्गताऽऽदयः परित्यक्ताः,यश्च तेषां पा. त्रं दवा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषाः, ते च प्रागेव भाविताः, व्रतानि परित्यक्तानि भवन्ति । पानग्रहणे, पानग्रहणं भक्तोपलक्षणं, संक्ततभक्तपानग्रहणे इत्यर्थः । भावना सर्वत्र प्रागेव कृता ।
पुनरपि परः प्रश्नययति-- जह होंति दोस एवं. तम्हा एकेक धारए पत्तं । सुत्ते य एगभणिय, मत्तयउवदसणा चेम्हि ॥२२॥ दिन्नज्जरक्खिएहिं, दसपुरनगरम्मि उच्छुघरनामे। वासावासठितहिं, गुणनिष्फत्ती बहुं नाउं ।।२२२॥ एवमुक्कप्रकारेण बहूनामेकपात्राभ्यनुज्ञायां भवन्ति दोषाः,तस्मात् एकैका,एक पात्रं धारयेत्,न मात्रकं युक्तं पात्रमनुशातम् । तथा चोक्तम्-" जे निग्गंथे तरुणे बलवं से पगं पायं धरेज, नो वीयं ” इति । ततो ज्ञायते नानुज्ञातं तीर्थकरैर्मात्रक ग्रहणं केवलमिदानीमार्यरक्षितैराचार्यैर्दशपुरनगर इक्षगृहनाम्नि उद्याने वर्षावासस्थितैर्बह्वीं गुणनिष्पत्ति सात्वा मात्रकस्योपदेशना दत्ता कृता।
सा च यैः कारणैः कृता, तान्युपदर्शयतिदरे चिक्खल्लो वु-टिकायसज्झायमाणपलिमंथो। तो तेहिं एस दिनो, एस भणंतस्स चउ गुरुगा ॥२२३॥ ते आर्यराक्षता प्राचार्या दशपुरनगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारानं स्थिताः, मार्गे च कर्दमोऽतिप्रभूतो वृष्टिवर्ष,तदप्यतिशयेन प्रभूतं पतति,ततः प्रायोग्ये श्राचार्याऽऽदीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति । अथ गृह्यतेतर्हि कुत्र पानीयं भैक्ष वा गृह्यताम् । अथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहरितकायानां विराधना स्वाध्या यध्यानानां च परिमन्थो व्याघातः, ततस्तरेतैः कारणरेष मा. त्रकस्योपदेशो दत्तः। सूरिराह-यथोत्रकारणवशादायराक्षितेरेष मात्रकोऽनुज्ञातो न तीर्थकरैरिति । एवं भणतो वदतस्तत् प्रायश्चित्तं चत्वारो गुरुकाः,तीर्थकरैरप्यनुज्ञानात्। एतच्चाऽग्रे दर्शयिष्यते । यदपि चोक्तम्-"जे निग्गंथे तरुणे बलवं से एगं पायं धरेज्जा नो वीयं।" इत्यादि सूत्र, तदपि गच्छनिर्गतविषयं,न स्थविरकल्पाऽऽश्रितं, न च तेन कारणे जातेनाऽऽर्यरक्षितर्मात्रकानुशा कृता, तदेवैकं केवलं, किं त्वन्यदपि मात्रकानुशायां कारणकदम्बकमस्ति ।
तदेवाऽऽहपाणदयखमणकरणे, संघाडासतिविकप्पपरिहारी । खमणासहु एगागी, गेएहति ऊ मत्तए भन्तं ॥२२४॥ थेराणेस विदिनो, ओहोवहिमत्तगो जिणवरेहिं । आयरियादीषऽडा, तस्सुवभोगो न इहरा उ ॥२२॥ प्राणिदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात, तस्य यः संघाटकः स क्षपणं कर्तुं न शक्नोति, न च तस्याऽन्यः संघार
कः विद्यते, ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति, तस्य परिहरणाय एकाकी हिण्डते, सद्वितीयस्य संघाटकवतः साधोः प्राणिदयाथै क्षपणकरणे संघाटाभावे विकल्पपरिहारी क्षपणकरणास. मर्थो भिक्षामेकाकी हिण्डमानः पतइहे पानकं गृह्णाति, मात्रके भक्तम्। अनेन कारणेन स्थविराणामोघोपधिरूपो मात्रको जिनवरैर्वितीर्णोऽनुज्ञातः, श्रोधनियुक्तौ तथाऽभिधानात्। एतेन यदुक्तं तीर्थकरैर्नानुज्ञातो मात्रक इति तन्मिथ्यत्याविदितम् ,अत एतस्यैवं युवतश्चतुर्गुरुकं प्रायश्चित्तम्। तथा तस्य मात्रस्योपभोगे प्राचार्याऽऽदीनामाचार्यग्लानप्राघूर्णकबालवृद्धाऽऽदीनामर्थाय तत्प्रायोग्यग्रहणाय, उपलक्षणमेतत्-संसक्तभक्तपानशोधिकरणाय च प्रागुक्लकारणव्यतिरेकेण प्रायेणानुशातः, इतरथा तूक्तकारणव्यतिरेकेण नानुशातः, एतच परिभाव्य तत आर्यरक्षितैश्चिन्तितं प्रायःप्राणरक्षणाय संसक्लभक्तपानविशोधिकरणाय च मात्रक एकपरिभोगोऽनुशाता, शेषकालं त्वलोभाऽऽद्यसङ्गनिवारणाय प्रतिषिद्धः।
तथाऽऽहगुणनिष्फत्ती बहगी, दगमासे होहिति ति वियरंति । लोभे पसजमाणे, वारेंति ततो पुणो मत्तं ॥२२६॥ गुणनिष्पत्तिबही दकमासे वर्षारात्रे भविष्यतीति तत्प्रारम्भसमये भगवन्त आर्यरक्षिता मात्रकपरिभोगवन्त आर्यरक्षि. ता मात्रकपरिभोगं वितरन्त्यानुजानन्ति, ऋतुबद्धे तु काले प्राचार्यादिप्रायोग्यग्रहणलक्षणं कारणमतिरिच्यान्यत्कारणं न समस्ति, केवलं लोभ एव प्रसज्जते । तथाहि-यत् यत् उत्कृष्टं तत्तत् लोभेन मात्रके गृह्णाति,तत इत्थं लोभे प्रसज्जति तनिवारणायाऽऽचार्याऽऽदिप्रायोग्यग्रहणाभावे पुनर्मात्रक तदा वारयन्ति ।
एवं सिद्धं गहणं, आयरियाईण कारणे भोगो । पाणदयट्ठपभोगो, वितियो पुण रक्खिअजाओ॥२२७।। एवमुक्तप्रकारेण मात्रस्य ग्रहणं सिद्ध, यतः सूत्रे श्रोधनियुपत्यादी प्राचार्याऽऽदीनां कारणे प्राचार्याऽऽदिप्रायोग्यग्रहणलक्षणे मात्रकस्याभोगोऽनुज्ञातः, द्वितीयः पुनरुपभोग आर्यरक्षितात् प्राण दयाऽर्थ प्रवृत्तः । कारणाभावे तु मात्रकपरिभोगे प्रायश्चित्तम् ।।
तदेवाऽऽहजत्तियमित्ता वारा, दिणेण आणेइ तत्तिया लहुगा। अट्ठीह दिणेहि सपयं,निकारण मत्तपरिभोगे ।।२२८।। निष्कारणे कारणाऽभावे मात्रकस्य परिभोगे यावन्मात्रान् बारान् दिवसेनैकेन तेन मात्रेणाऽऽनयति भावतो लघुका मासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदं पुनर्वताऽऽरोपणं, मूललक्षणमष्टमं प्रायश्चित्तमिति भावः। जे उति न घेतब्बो, मत्तो जे वा य तं न धाति । चउगुरुगा तेसि भवे, आणाऽऽदिविराहणा चेव ॥२२६॥ जे बुवते-न ग्रहीतव्यो मात्रको, ये च तन्मात्रकं न धारयन्ति, तेषां प्रत्येक प्रायश्चितं भवति चस्वारी गुरुका, श्राशाऽऽदयश्च दोषाः, प्राणविपत्तेः संयमविराधना वा।
अन्यच्चलोए होइ दुगुंछा, वियारपडिग्गहेण उड्डाहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org