SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ (३२८) अभिधानराजेन्द्रः । पडिसिज्जा किमुक्तं भवति ? - शब्दे प्रश्रवणस्थानरूपाणि भवन्ति वा, न वा, रूपेऽपि प्रस्रवणस्थानशब्दा भवन्ति वा न वेति । एतेष्वेव दोषानुपदर्शयति परोभयदोसा, काइयभूमी य इच्छणिच्छंते । संकाए गमणे तू. वोच्छेद पदोसतो जं च ॥ ४५७ ॥ यत्र संयतानामविरतिकानां चैका कायिकी भूमिस्तत्राऽऽत्म परोभयसमुत्था दोषाः । तत्र संयत एवाविरतिकां रहसि दृष्ट्वा यदाऽऽत्मना तुभ्यति एष आत्मसमुत्थो दोषः । यस्तु सा स्त्री तस्मिन् संयते क्षुभ्यति स परसमुत्थः । यत्तु साधुर्विरतिकायाविरतिकाsपि साधौ क्षोभमुपगच्छति स उभयसमुत्थो दोषः (इच्छागच्छत्ति) यदि स्त्रिया प्रार्थितः साधुस्तां प्रतिसे वितुमिच्छति ततो व्रतभङ्गः, श्रथ नेच्छति ततः सा उड्डाहं कुर्यात् । (संक ति) श्रविरतिका कायिकी भूमौ प्रविष्टा पश्चा त् संयतमपि तत्र गच्छन्तं दृष्ट्वा कोऽपि शङ्कां कुर्यात्, यदेमद्य द्वावप्यत्र त्वरितं प्रविष्टौ तद् मैथुनार्थमिति । तत एकस्यानेकेषां वा साधूनां व्यवच्छेदं कुर्यात् ( पदोसतो जं व त्ति ) तदीयाः पतिदेवराऽऽदयः प्रद्वेषतो यद् ग्रहणाऽऽकणाऽऽदिकं करिष्यन्ति, तन्निष्पन्नं प्रायश्चित्तम् । यत्राविरतिकानां साधूनां चैकमेवोपवेशनस्थानं तद्दो पानाह- दुग्गूढा छहं, तदंसणे भुत्तभोगिसइकरणं । वेव्वयमासु य, पडिबंधुचयाऽऽसंका ।। ४५८ ॥ दुर्गूढानां दुष्प्रावृतानां स्त्रीणां यानि षड्भागानि गण्डकुचोरःप्रभृतीनि तेषां दर्शने भुक्तभोगिनांतु स्मृतिकरणं कौतुकमुत्पद्यते, तथा वैक्रियं वाताऽऽदिविक्रियाविशेषान्महाप्रमाणं सागारिकम्, अथवा विकुर्वितं नाम महाराष्ट्रविषये सागारिकं दृष्ट्रा तत्र विण्टकः प्रक्षिप्यते सा चाविरतिका तादृशेङ्गनदाने प्रतिसेवितपूर्वा ततो वैक्रियं, विकुर्वितं वा । श्रादिग्रहणात्पैकिं वा सागारिकं दृष्ट्रा सा स्त्री तत्र साधोः प्रतिबन्धं कुर्यात्, उड्डश्चकं वा कश्चिदगारः कुर्यात् । श्राशङ्का वा लोकस्य भवतिएते श्रमणका न सुन्दरा येनैवं महेलाभिः सममासते । सर्वेष्वपि प्रस्रवणाऽऽदिस्थानेषु सामान्यत इमे दोषाःivarta अगुत्ती, लजाणासो य पीइपरिवुड्डी । साहु तवोवासो, निवारणं तत्व परिहाणी || ४५६ ॥ स्त्रीभिःatha तिष्ठतां साधूनां ब्रह्मचर्यस्यागुप्तिर्लज्जानाशश्च भवति, परस्परमभीक्ष्णं संदर्शनाऽऽदिना प्रीतिपरिवृद्धिरुपजायते, लोकश्चोपहासोक्तिभङ्गया ब्रवीति अहो श्र मी साधवस्तपोवने वसन्ति । निवारणं च राजादयः कुर्वन्ति मा एतेषां मध्ये कोऽपि प्रवज्यां गृह्णीत । ततश्च तीर्थपरिहाणिः तीर्थस्य व्यवच्छेदो भवति । रूपप्रतिबद्धे दोषानाह चकमियं ठिय जंपिय, मोडिय विप्पेखियं च सविलासं । गारेय बहुविहे दद् भुत्तेयरे दोसा ||४६० ॥ चङ्क्रमितुं राजहंसवत् सलीलं पदन्यासः स्थितं कटिस्तमेनोर्द्धस्थानं, मोटितं गात्रमोदनं विविधमर्धाक्षिकटाक्षाssदिभिर्भेदैः प्रेक्षितं विप्रेक्षितं तच्च सविलासं सविक्षेपसहितं सविस्मितं सुखं च । एवमादीनाकारान् बहुविधान् दृष्ट्रा भुकानामितरेषां चाभुक्तानां स्मृतिकरण कौतुकाऽऽदयो दोषाः Jain Education International For Private पडिब सिज्जा श्रविरतिकानां पुनर्नानादेशीयान् साधून् दृष्ट्वा इत्थमभ्युपपातो भवेत् जल्लमलपंकियाण वि, लावन्नसिरी जहेसि साहूणं । सामन्नम्म सरुवा, सयगुणिया आसि गिहवासे ||४६१ ॥ जलं च कठिनीभूतं कफाऽऽदि मलः पुनरुद्वर्तितः सन्निर्गच्छति, जलेन मलेन च पतितानामप्येषां साधूनां देहेषु भ भ्यङ्गोद्वर्तनस्नानविरहितेष्वपि यथा लावण्यश्रीः शोभालक्ष्मीः श्रामण्येपि सुरूपोपलभ्यते, तथा ज्ञायते नूनममीषां गृहस्थत्वे शतगुणिता लावण्यलक्ष्मीरासीत् । शब्दप्रतिबद्धे दोषानाहगीयाणि य पढियाणिय, हसियाणि य मंजुलुल्लावा । भूसणसद्दे राह -स्सिए अ सोऊण जे दोसा ॥ ४६२ ।। स्त्रीणां संबन्धीनि भाषाशब्दरूपाणि यानि गीतानि च पठितानि च मञ्जुलाच माधुर्याऽऽदिगुणोपेता उल्लापाः, ये च वलयनूपुराऽऽदीनां भूषणानां शब्दाः, ये च रहसि भवा राहसिकाः पुरुषेण परिभुज्यमानायाः स्त्रियाः स्तनिताऽऽदयः शब्दा इत्यर्थः । तान् श्रुत्वा ये भुकसमुत्था दोषास्तन्निष्पनमाचार्यः प्रायश्चित्तं तत्र भवे प्रतिबद्धे तिष्ठन् प्राप्नोति । अथ स्त्रियः साधूनां स्वाध्यायशब्दं श्रुत्वा यद्विनयेयुस्तदर्शयतिगंभीरमहुरफुडविस- यगाहओ सुस्सरो सरो जह सिं । सज्झायस्स मणहरो, गीयस्स णु केरिसो आसी १ । ४६३॥ गम्भीरो नाम यतः प्रतिशब्द उत्तिष्ठते मधुरः कोमलः स्फुटो व्यक्ताक्षरः, विषयग्राहकोऽर्थपरिच्छेदपटुः, सुस्वरो मालवकौशिक्यादिस्वरानुरञ्जितः, एवंविधः स्वरो यथा एषां साधूनां संबन्धी स्वाध्यायस्य मनोहरः श्रूयते, यदा गृहवासे विश्वस्ताः संगीतमेते विद्दितवन्तस्तदानीं तस्य कीदृशो नाम शब्द आसीत्, किन्नरध्वनयस्तदानीमभूवन्निति भावः । उक्ताश्चतुर्ष्वपि प्रस्रवणाऽऽदिप्रतिबद्धेषु दोषाः । अथ " ते पुरा पुरिसा दुविहा" इत्यादि पश्चार्द्ध व्याख्यानयति - पुरिसा यत्तभोगी, भुत्तभोगी य केइ निक्खता । कोहल सइकरणे, भवेहि दोसेहिंर्म कुआ || ४६४ ॥ ते पुनः सङ्घातपुरुषा द्विविधाः केचिद् भुक्तभोगिनः केचित्तु श्रभुक्तभोगिनो निष्क्रान्ताश्च ते व तत्रोपाश्रये स्मृतिकरणकुतूहलोद्भवा दोषा ये उत्पद्यन्ते तैरिदं कुर्युः पडिगमणमन्नतित्थिग, सिद्धी संजइ सलिंग हत्थो य । अद्धाणवाससावय- तेणेसु च भावपडिबद्धे ||४६५॥ प्रतिगमनं नाम भूयोऽपि गृहवासं गच्छेयुः । यद्वा- कश्चित्पा र्श्वस्थाऽऽदिभ्यः समागतः स तेष्वेव व्रजेत्, अन्यतीर्थिकेषु वा गच्छे वा सिद्धपुत्रिकां वा संयती वा स्वलिङ्गस्थितः प्रतिसेवेत, हस्तकर्म वा कुर्यात् । यत एते दोषा श्रतो न भावप्रतिबद्धे स्थातव्यं भवेत् । श्रावश्यके तत्राऽपि स्थातव्यं भ वति । किं पुनस्तदित्याह - ( श्रद्धाण इत्यादि ) श्रध्वप्रतिप नास्ते साधवो नवां वसति न लभन्ते, वर्षे वा निरन्तरं पतति चतुष्पदाः स्तेनाऽऽदयो ग्रामाऽऽदौ बहिरुपद्रवन्ति एतैः कारणैर्भावप्रतिबद्धे तिष्ठन्ति । Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy