________________
१०
लेश्या - कोश
(ग) आत्मनि कर्मपुद्गलानाम् लेश्नात्-संश्लेषणात् लेश्या, योगपरिणामश्चैताः, योग निरोधे लेश्यानामभावात्, योगश्च शरीरनामकर्मपरिणति विशेषः ।
- भग० श १ । उ २ । प्रह८ की टीका ।
(घ) द्रव्यतः कृष्णलेश्या औदारिकादि शरीर वर्णः ।
- भग० श १ । उ ६ । प्र २६० की टीका । आत्मनः सम्बन्धनीं कर्मणोयोग्य लेश्या कृष्णादिका कर्म्मणो वा लेश्या 'श्लिश श्लेषणे' इति वचनात् सम्बन्धः कर्मलेश्या ।
- भग० श १४ । उ ६ । प्र १ की टीका । (च) इयं (लेश्यां) च शरीरनाम कर्म्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्म्मपरिणति विशेषत्वात्, यत उक्तं प्रज्ञापना वृत्तिकृता
"योगपरिणामोलेश्या, कथं पुनर्योग परिणामो लेश्या, यस्मात् सयोगिhaar शुक्लेश्या परिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेशयत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामोलेश्ये' ति, स पुनर्योगः शरीरनाम कर्म्मपरिणतिविशेषः यस्मादुक्तम् – 'कर्म हि कार्मणस्य कारणमन्येषां च शरीराणा' मिति" तस्मादौदारिकादि शरीरयुक्तत्यात्मनो वीर्य परिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीव-व्यापारो यः स वाग्योगः २, तथौदारिकादि शरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्यात् जीवव्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरण युक्तस्यात्मनो वीर्य परिणतियोग उच्यते तथैवलेश्यापीति, अन्ये तु व्याचक्षते - 'कर्म्मनिस्यन्दो लेश्ये 'ति सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णा दिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति ।"
(a) लिश्यते प्राणी कर्मणा यया सा लेश्या ।
(ज) यदाह " श्लेष इव वर्णबंधस्य कर्मबंधस्थिति तिविधात्र्यः " ।
Jain Education International
उपरोक्त तीनों - ठाण० स्था १ । सू ५१ पर टीका ।
- २ मलयगिरि :
(क) इह योगे सति लेश्या भवति, योगाभावे च न भवति ततो योगेन सहान्वयव्यतिरेकदर्शनात् योगनिमित्ता लेश्येति निश्चीयते, सर्वत्रापि तन्निमित्तत्व
For Private & Personal Use Only
www.jainelibrary.org