SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५०८ पुद्गल-कोश ५ पुद्गल का ज्ञान - १ अवधि ज्ञानी जीव किन-किन घगणाओं को जानता है संखेज्ज मणोदव्वे भागो लोग पलियस्स बोधव्वो । संखेज्ज कम्मदव्वे लोए थोवणयं पलियं ॥ - विशेभा० गा ६६९ " टोका - मनोवर्गणागतं मनःपरिणामयोग्यं द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये मनोद्रव्यविषयेऽवधौ 'संखेज्ज त्ति' संख्येयतमो भागो लोकपत्योपमयोविषयत्वेन बौद्धव्यः । इदमुक्तं भवति - मनोवगंणाद्रव्यं पश्यनवधिः क्षेत्रतो लोकस्य संख्याततमं भागं कालतस्तु पल्योपमस्य संख्येयतमं भागं पश्यतीति । 'संखेज्ज कम्मदव्वे त्ति' कमवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽवधौ संख्येया लोकपल्योपमभागास्तद्विषयतयाऽवगन्तव्याः । इदमुक्त' भवति कर्मवगणाद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए योवूणयं पलियं ति' चतुर्दशरंज्ज्वात्मकलोकविषयेऽवधौ कालतः स्तोकोनं पत्योपमं विषयतया बौद्धव्यम् । इदमत्र हृदयम् - क्षेत्रतः समस्तलोकं पश्यन्नवधिः कालतः स्तोकोनं पल्योपमं पश्यति । द्रव्येण सह क्षेत्र- कालोयोरूपनिबन्धे प्रस्तुते केवलयोस्तयोरूपनिबंधप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नवम्, साक्षादिह द्रव्योपनिबंधो नोक्तः, सामर्थ्यात् त्वसौ प्रोक्त एव, तथाहि - पूर्व 'काले चउण्ह बुड्डी' इत्युक्तमेव । कालवृद्धिश्चाननरोक्तक मंद्रव्यदर्शकापेक्षयाsatta | ततश्चास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् । अतएव च तदुपर्यपि ध्रुववर्गणाविद्रव्यं पश्यतः क्षेत्र - कालवृद्धिक्रमेण परभावधिसंभवोऽप्यनुमीयते । जो अवधि ज्ञानी काल से पल्योपम के संख्यातवें भाग को, क्षेत्र से लोक के संख्यातवें भाग को देखता है वह अवधि ज्ञानी मनोवर्गणा द्रव्य को जानता है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy