SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४२५ पुद्गल-कोश टीका--तद्यथा-स्निग्धस्येत्यादिनोदाहरति। ( एकगुण ) स्निग्धस्येत्यनुक्तेऽपि संख्या गम्यते गुणश्चसामर्थ्यात्, द्विगुणाद्यधिकस्निग्धेनाणुना द्वाभ्यां स्नेहगुणविशेषाभ्यामेकगुणस्निग्धादधिको यस्तेन सहास्ति बंधः, यथंकगुणस्निग्धएकस्तदन्यस्त्रिगुण स्निग्धः, अत्रैकगुणस्निग्धस्यकः समानो गुणस्त्रिगुणस्निग्धे ( स्कंधे ) अणौ वा शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपंचगुणस्निग्धेनापि बंधसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह बंधसंभवः । ___ ननु च प्रथमविकल्पान्नास्ति कश्चिद् विशेषोऽस्य स्पुटः, सत्यं, न कश्चिद् भेदः, तथापि तु बंधो द्वयादिवृत्तिः, तत्र बध्यमानयोर्बध्यमानानां वा षठ्यन्तत्वे तृतीयान्तत्वे वा बंधाविशेषः इति प्रतिपत्त्यर्थमुभयथोच्चारणं चकार भाष्यकारः। रूक्षस्यापोत्यादिभाष्यमुक्तप्रकारेणेव गमनीयम् । एवं द्वयधिकादिगुणानां स्नेहवतां रौक्ष्यवतां च यथोक्तलक्षणो बंधो भवतीत्युच्यते, प्रतिषेधव्यावृत्तिप्रदर्शनार्थ भवति तुशब्दोपादनम् द्वयधिकादिगुणानां बंधाभ्यनुज्ञाने चार्थापत्तिलभ्यफलप्रदर्शनाथमिदमाह- एकादिगुणाधिकयोस्तु सदृशयोबंधो न भवति, प्रतिविशिष्टपरिणतिशक्तरभावात्, एक गुणस्निग्धस्य हि द्विगुणस्निग्धोऽणुरेकगुणाधिकः, द्विगुणस्निग्धस्य त्रिगुणस्निग्ध एकगुणाधिकः, त्रिगुणस्निग्धस्य चतुर्गुणस्निग्ध एकाधिकः इत्यादि यावदनन्तगुण एकाधिकः इति, एवं रूक्षस्यापि वाच्यम्, एकादिगुणाधिकयोरित्यत्रादि ग्रहणाद द्विगुणस्य त्रिगुणेन सह नास्ति बंधः, तत्रापि द्विगुणश्चैकगुणाधिकश्चेति द्विवचनम्, एवं शेषविकल्पयोजनमपि कार्यम्, तु शब्दः कैमर्थक्यात् सूत्र इत्याशंकिते भाष्यकृहाह-अत्र तुशब्दो व्यावृत्तिविशेषणार्थः। तुशब्दस्यानेकार्थवृत्तित्वे सत्यप्यत्र सूत्रे व्यावृत्तिविशेषणं चोभयमर्थ परिगृहयते, व्यावृत्तिश्च विशेषणं च व्यावृत्तिविशेषणे अर्थस्ते यस्य स यथोक्तः, तत्र व्यावृत्तिः-निवृत्तिः, विशेष्यतेऽनेनेति विशेषणं तदर्थो यस्यासौ व्यावृत्तिविशेषणार्थः, कस्य पुनावृत्ति किं वा विशेष्यमाणमित्याह-प्रतिषेधं व्यावर्तयति बंध च विशेषयतीति । न जघन्यगुणानामिति प्रकृतप्रतिषेधस्तं व्यावर्तयति, यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy