________________
१४
क्रियासंग्रहः
वज्रलास्याहं। वज्रमालाहं। वज्रगीताहं। वज्रनृत्याह। वज्रधूपाहं। वज्रपुष्पाहं। वज्रदीपाहं। वज्रगन्धाहं। वज्राङ्कुशोऽहं। वज्रपाशोऽहं। वज्रस्फोटोऽहं। वज्रावेशोऽहं ।
इत्युक्वा स्वहृदये स्वस्वदेवतारूपञ्चिन्तयेत्। इति कृत्वा स्वहदये वज्रधातुमण्डलं सम्पूर्णं भावयेत्।
आत्मानं वज्रसत्त्वरूपं विभाव्य वज्रसत्त्वसमयमुद्रां बध्वैवं वदेत्। समयोऽहं । समयमहं समयसत्त्वोऽहं। तयैव मुद्रया हृदूपर्णाकण्ठमूर्ध्वस्वधितिष्ठेत्। समयसत्त्वम् अधितिष्ठस्व मां। ओं वज्रसत्त्व हूं। इत्युच्चार्य वज्रम् उल्लालयेत्।
पुनः स्वहृदि चन्द्रे वज्ररश्मिं संस्फार्य वज्रहेतुकर्ममुद्रया वज्रधातुमण्डलम् आकाशे निर्माय पश्येत्। वज्रसत्त्वसममुद्रया समयस्त्वं। समयमहं। वज्रावेशसमयमुद्रां बध्वैवं पूर्ववत् तिष्ठ वज्रेत्यादि पठेत् त्रिधा।
मण्डलद्वयम् एकीभूतं पश्येत्। आत्मानम् आकाशे सूक्ष्मरूपं कृत्वा। सत्त्ववज्री बध्वा पुष्पमालां गृहीत्वा मण्डले प्रवेशयेत्।
इत्ययं मण्डले रम्ये मया शिष्य: प्रवेशितः । यथा पुण्यन्तथैवास्तु देवतानां कुलक्रमः ।। यादृक् सिद्धिर्भवेत् तस्य गोत्रे यस्मिश्च भाजन: । यादृक् पुण्यानुभावश्च तादृग् अस्यास्तु मण्डले । प्रतीच्छ वज्र होः। पुष्पपातनम् ।
ततो मालाभिषेकं गृह्णीयात्। ओं प्रतिगृह्ण त्वं इमं वत्स महाबलः । पुष्पाभिषेक:।
सत्त्ववज्री बद्धवा चक्षुरुद्घाटयेत्। ओं वज्रसत्त्व: स्वयं तेऽद्य चक्षुरुद्घाटनतत्परः।। उद्घाटयति वज्राक्षो वज्रचक्षुरनुत्तरम्।। हेवज्र पश्य चक्षुरुद्घाटनम्।।
ततो मण्डलं दर्शयेत्। वज्राङ्कुशाद् आरभ्य भगवन्तं वैरोचनं पर्यन्तम्। ततः शिरसि वज्रं धारयति सत्त्ववज्रादिगृहीतकलशोदकेनाभिषिच्य। ओं वज्राभिषिञ्च मां। उदकाभिषेकः। ततः पञ्चबुद्धमुकुटपट्टाभिषेकं गृह्णीयात्। ओं वज्रधात्वीश्वरि हूं वजिणि अभिषिञ्च मां। उष्णीषे। वैरोचनं सितवर्णं बोध्यग्रीमद्रयावस्थितं चिन्तयेत्। वज्राञ्जलिं बद्धवा अङ्गुष्ठद्वयपर्यत कुञ्चिताग्रविग्रहं सममध्यमोत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता। ओं वज्रवज्रिणि हूं अभिषिञ्च मां। ललाटोपरि अक्षोभ्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org