SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ १० क्रियासंग्रहः वज्रनैवेद्ये हूं। ततोऽष्टौ लास्यादिमुद्रा बध्नीयात्। ओं सर्वतथागतमहावज्रोद्भवदानपारमितापूज्ये हूं। ओं सर्वतथागतोद्भवशीलपारमितापूज्ये वां। ओं सर्वतथागतोद्भवक्षान्तिपारमितापूज्ये ह्रीः। ओं सर्वतथागतोद्भवमहावीर्यपारमितापूज्ये अः। ओं सर्वतथागतोद्भवसर्वदुर्गतिविशोधनि पुष्पावलोकिनि प्रज्ञापारमितापूज्ये हूं हूं फट्। ओं सर्वतथागतोद्भवसर्वापायविशोधनि धम धम धूपय-धूपय ध्यानपारमितापूज्ये त्रां हूं फट्। ओं सर्वतथागतसर्वापायविशोधनि ज्ञानालोककारिप्रणिधिपारमितापूज्ये ह्री: हूँ फट्। एते अनन्तरोक्तकर्ममुद्रया सम्पूज्य। ततो घण्टां वादयेत्। [असमाचलासमितसारधर्मिणः। करुणात्मिका: जगति दुःखहारिणः। असमन्तसर्वगुणसिद्धिदायिनः। असमाचलासमवराग्रधर्मिणः । गगनसमोपमकृता न विद्यते। गुणलेशरेणकणिकेऽप्यसीमिके। सदसत्त्वधात्वरसिद्धिदायिके। विगतोपमेषु असमन्तसिद्धिषु। सततामला करुणवेगतोत्थिता। प्रणिधानसिद्धिरनिरोधधर्मता। जगतोऽर्थसाधनपरा समन्तिनी। सततं विरोचति महाकृपात्मनाम्। नहि रोधता करुणचारिकाचला। व्रजते त्रिलोकवरसिद्धिदायिका। अमितामितेषु सुसमाप्तितां गता। सुगतिं गतेष्वपि अहो सुधर्मता। त्रिसमयाग्रसिद्धिवरदा ददन्तु मे। वरदानताऽग्रतां गता गतिं सदा। सकलात्रिलोकवरसिद्धिदायिकाः। नाथास्त्रियध्वगतिका अनावृताः।] इति स्तोत्रोपहारेण स्तुनुयात्। तत: पञ्चमण्डलकेन प्रणमेत्। पूर्वस्यां दिशि कायेन वज्राञ्जलिसहितेन। ओं सर्वतथागतकायवाक्-चित्तप्रणामेन वज्रवन्दनाङ्करोमि। ओं सर्वतथागतपूजोपस्थानायात्माननिर्यातयामि। ओं सर्वतथागतवज्रसत्त्व अधितिष्ठस्व माम्। दक्षिणे वज्राञ्जलिं हृदये धारयेत् ललाटेन भूमिं स्पृशन् ओं सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि ओं सर्वतथागतवज्ररत्नाभिषिञ्च मां। वज्राञ्जलिं शिरसि सन्धार्य मुखेन भूमिं स्पृशन् पश्चिमे। ओं सर्वतथागतपूजाप्रवर्त्तनायात्माननिर्यातयामि ओं सर्वतथागतवज्रधर्म प्रवर्त्तय मां। उत्तरे शिरसि प्रणामाञ्जलिमवतीर्य हृदये सन्धार्य भूमिं स्पृशन्। ओं सर्वतथागतपूजाकर्मणे आत्मानन्निर्यातयामि। ओं सर्वतथागतवज्रकर्म कुरुष्व माम्। ततो जानुमण्डलं पृथिव्यां प्रतिस्थाप्य हृद्यञ्जलिं कृत्वा पापं प्रतिदेशयेत्। ___ समन्वाहरन्तु मां दशसु दिक्षु सर्वबुद्धबोधिसत्त्वा: सर्वतथागतवज्ररत्नपद्मकर्मकुलावस्थिताश्च सर्वमुद्रामन्त्रविद्यादेवता अहम् अमुकनामा दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्ररत्नपद्मकर्मकुलावस्थितसर्वमुद्रामन्त्रविद्यादेवतानाञ्च पुरत: सर्वपापं प्रतिदेशयामि। विस्तरेण दशसु दिक्षु अतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वानां। प्रत्येकबुद्धार्यश्रावकमार्गत:सम्यक्प्रतिपन्नानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy