SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ क्रियासंग्रहः तदनु समाधित्रयभावनार्थं देवतायोगो विधेय: । ओं स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहम् ।। नैरात्म्याधिमोक्षं आध्यात्मिकस्नानं कृत्वा हूंकारवज्रपरिणामेनात्मानं वज्रज्वालानलार्क भावयेत्। नीलवर्णमष्टभुजं चतुर्मुखं मूलभुजद्वये वज्रवज्रघण्टा प्रज्ञालिङ्गनाभिनया, अपरभुजद्वयेन खड्गतर्जनीपाशं, अपरभुजद्वयेन चक्रखट्वाङ्ग, अपरभुजद्वयेन शरचापधरं, मूलमुखं कृष्णं दक्षिणे शितं वामे रक्तं पृष्ठे पीतं प्रतिमुखं त्रिनेत्रं, सर्पाभरणभूषितं प्रत्यालीढेन नारायणलक्ष्मीमाक्रान्तं क्रोधरूपं सर्वालङ्कारविभूषितं ध्यायात्। तत: ह्री:कारेण कण्ठेऽष्टदलपद्मं जिह्वापद्मदले हूंकारेण शुक्लपञ्चसूचिकवर्गं निष्पाद्यानेनाधितिष्ठेत्। वज्रजिह्वः। करद्वये अकारेण चन्द्रमण्डलद्वयं, तयो उपरि हूंकाराभ्यां पञ्चसूचिकवज्रद्वयं विचिन्त्य करशाखाश्चैव सूच्यो विध्नघातादिकं कुर्यात्। ओं वज्रज्वालनलार्क हूं वं। क्रोधतेरेत्तरीम् बध्नीयात्। ओं गृह्व वज्रसमय हूं वं। वज्रबन्धन् तले कृत्वाच्छादयेत् क्रुद्धमानस:। गाढमगुष्ठवज्रेण क्रोधतेरेत्तरी स्मृता। ततो मालाभिषेकं गृह्णीयात्। ओं वज्रज्वालानलार्क हूं अभिषिञ्च मां। __वज्रबन्धेऽङ्गुष्ठद्वयं सहितोत्थितं शिरसि ललाटोपरि दक्षिणकर्णोपरि पृष्ठे वामकर्णोपरि धारयेत्। वज्रतेरेत्तरी। ओं टुं। व्यक्षरकवचेन कवचयेत्। वज्रमुष्टिद्वयेन हृदये ग्रन्थ्याभिनयं कुर्यात्। तथा ग्रीवापृष्ठे पुनरपि हृदये स्तनान्तरे पुनरपि हृदये ग्रीवापृष्ठे च। ललाटे ग्रन्थ्याभिनयं कृत्वा शिरसि पट्टाभिषेकयोगेनान्ते समतालया तोषयेत्। वज्रतुष्य होः। ओं वज्रज्वालानलार्क हूं। वामवज्रमुष्टिं हदि विन्यस्य दक्षिणकरेण वज्रमुल्लालयन् सर्वविध्नान् हन्यात्। ततो वज्रानलाहंकारेण विघ्नदहनादिकं कुर्यात्। ओं वज्रानल हन दह पच मथ भञ्ज रण हूं फट्। अभ्यन्तरवज्रबन्धेऽङ्गुष्ठवज्रमुत्थिताङ्गुलिज्वालागर्थे इयम् वज्रानलसमयमुद्रा। तदनु ओं वज्रनेत्री बन्ध सर्वविध्नान्। वज्रबन्धं बध्वा अङ्गष्ठद्वयं प्रसार्य वामेतरचक्षुर्द्वयेषु न्यसेत्। वज्रनेत्रीसमयमुद्रा। ततो वज्ररक्षाहंकारेण वज्रमयीमधितिष्ठेत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy