________________
२२४
अवचूरिजुदो दन्वसंगहो दसणपुव्वं गाणं दर्शनपूर्वकं विषयविषयिणोः सन्निपातो दर्शनं तदनंतरमर्थग्रहणं किंचिदिति ज्ञानं यथा बीजांकुरौ । केषां, छदमत्थाणं-छद्मस्थानां किंचिदर्शनज्ञानावरणीययुक्तानां, तेषां च ण दोणि उवओगा जुगवं जम्हा दर्शनज्ञानोपयोगद्वयं युगपत् यस्मान्न तेषां अतो दर्शनपूर्वकं ज्ञानं बीजांकुरवत् । केवलिनाहे तु केवलज्ञानयुक्त पुनः जुगवं तु ते दो वि युगपत्तौ द्वौ भास्करप्रकाशप्रतापवत् ।
इदानीं चारित्रमाह45) असुहादो विणिवित्ती सुहे पवित्ति य जाण चारित्तं ।
वदसमिदिगुत्तिरूवं ववहारणया दुजिण भणियं ॥' जाण चारित्तं जानीहि चारित्रं किं तत् असुहादो विणिवित्ती सुहे पवित्तीय अशुभात्पापास्रवरूपात् निवृत्तिः शुभपुण्यास्रवद्वाररूपेण प्रवृत्तिश्च । एतत् वदसमिदिगुत्तिरूवं, व्रतसमितिगुप्तिरूपं, कस्मात् ववहारणया दु व्यवहारनयापेक्षया तु, किं विशिष्टंजिणभणिद-वीतरागप्रतिपादितम्, भावचारित्रं पुनरहं बबीमि परिणामः ।
इदानी सम्यक् चारित्रमाह46) बहिरभंतरकिरियारोहो भवकारणप्पणासढें ।
गाणिस्स जं जिणुत्तं तं सम्म परमचारित्तं ॥ तं सम्मं परमचारित्तं तत्सम्यक्परमचारित्रं भवति, किं विशिष्टं, जिणुत्तं जिनैः प्रतिपादितं चारित्रं, कस्स गाणिस्स ज्ञानिनो यथाख्यातमित्यर्थः। तत् किं जं बहिरमंतरकिरियारोहो यद्बाह्याभ्यंतरक्रियारोधः। तत्र बाह्यो व्रतचरणादयः, आभ्यंतरे व्रती शीलवानित्यादयः किमर्थं क्रियारोधः, भवकारणप्पणासठें संसारोत्पत्तिविनाशार्थम् गाथा
"णिज्जियसासो णिप्फंदलोयणो मुक्कसयलवावारो।
जोण्हा वच्छगओ सो जोई पत्थि त्ति संदेहो ॥” इत्यर्थः । इदानीं द्विविधमपि चारित्रं मोक्षकारणं भवतीत्याह47) दुविहं पि मोक्खहेउं झाणे झाऊण जं मुणी णियमा।
तम्हा पयत्तचित्ता जूयं झाणं समभसह ॥3 तम्हा पयत्तचित्ता जूयं झाणं समन्भसह तस्मात्कारणात्प्रयत्नचेतसः संतो यूयं समभ्यसत, तस्मात् कस्मात् यस्मात् पाउणदि प्राप्नोति कोऽसौ, मुणी मुनिः कथं, १. वदसमिदि। २. परमं सम्मचारित्तं । ३. मुक्खहेउं, झाणे पाउणदि । संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org