SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१४ अवचूरिजुदो दव्वसंगहो मर्यादिकृत्य एकसमयांतरमपि न कदाचिदन्यथाभावो वीर्यम् । केवलज्ञानी एव यदमूर्त्तसिद्धस्वरूपं परिचेत्तुं शक्नोति नान्यः। सूक्ष्मत्वम् एकस्मिन्सिद्धस्वरूपे असंख्यातानां सिद्धानामेकत्रसमवस्थितानामवकाशोऽवगाहनम् । नैव गुरुत्वं नैव लघुत्वमगुरुलघुत्वम् । असंख्यातानां सिद्धानामेकत्रसमस्थितानां परस्परसंघर्षणाभावोऽव्याबाधम् चेति । एवमष्टगुणसमन्विताः। किंचूणा चरमदेहदो चरमदेहतः किंचूनत्रिभागेन होनाः, लोयग्गठिदा लोकाग्रस्थिताः, णिच्चा नित्याः तेषां काले कल्प इति गतेऽपि गतिप्रच्युतिर्नास्ति । तथा उप्पादवएहि संजुता उत्पादव्यया. भ्यां युक्तास्तौ द्वौ चोत्पादव्याववाग्गोचरौ सूक्ष्मौ, प्रतिक्षणविनाशिनौ । उक्तं च "सूक्ष्मद्रव्यादभिन्नाश्च व्यावृताश्च परस्परम् । उत्पद्यते विपद्यते जलकल्लोलवज्जले ॥" इदानीं जीवद्रव्यं व्याख्याय अजीवद्रव्यपंचप्रकारं स्वरूपमाह___15) अज्जीओ पुण जेओ पुग्गलधम्मो अधम्म आयासो। कालो पुग्गल मुत्तो रूवादिगुणो अमुत्ति सेसा दु॥' पुद्गलमूर्तः रूपादिगुणः, शेषाः पुनरमूर्ताः । अत्र व्याख्यानं पूर्वमेव कृतम् । तस्य पुद्गलस्य किं स्वरूपं पर्याया इत्याह_16) सद्दो बंधो सुहुमो थूलो संठाणभेदतमछाया । उज्जोदादवसहिया पुग्गलदव्वस्स पज्जाया ॥ पुग्गलदव्वस्स पज्जाया एते पुद्गलद्रव्यस्य पर्यायाः, के ते आत्मनः परिस्पंदानानाप्रकाराणुसंघटनात्ताल्वोष्ठपुटव्यापारेण करचरणकाष्ठपाषाणादिपरस्परं संघर्षणे च निष्पद्यते शब्दः । बंधो स्निग्धं परमाणुद्वयेन सह रूक्षपरमाणूनां चतुर्णां संश्लेषः एकेन स्निग्धेन सह त्रयाणां रूक्षाणां संश्लेषः, स्निग्धपरमाणुत्रयेण सह पंचानां रूक्षाणां संश्लेष इति, बंधमुपलक्षणमेतत्, सुहुमो परमाणुः सूक्ष्मः, थूलो, स्कन्धरूपत्वस्थूलः, संठाणभेद, समचतुरस्रसंस्थानं न्यग्रोधपरिमण्डलसंस्थानं, स्वातिसंस्थानं वामलूराकृतिरित्यर्थः, वामनसंस्थानं, हुंडकसंस्थानं चर्मकरदृतिरिव प्रकृतिरित्यर्थः । कुब्जकसंस्थानमिति, तम अंधकारः, छाया वृक्षादिभवा, उज्जोदा ताराचंद्रमणिमाणिक्यादिभवा । आदव आतपोऽग्निसूर्यभवः ।। जीवपुद्गलयोर्धमंगतिसहकारी भवतीत्याह___17) गईपरिणयाण धम्मो पुग्गलजीवाण गमणसहयारी। ___ तोयं जह मच्छाणं अच्छंताणेव सो णेई ॥ गइ सहयारी, गति सहकारी भवति कोऽसौ, धम्मो, धर्मद्रव्यं, केषां, पुद्गलजीवानां, कथंभूतानां, गइपरिणयाण गतिकर्मोदयाच्चतुर्गतिपरिणतानाम्, अत्राहयदि तस्य गतिसहकारित्वे तादृशी शक्तिरस्ति तदा स्थिति कुर्वतस्तेषां किन्नु नान१. अज्जीवो । आया । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy