SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अवचूरिजुदो दव्वसंगहो अथेष्टदेवताविशेषं नमस्कृत्य महामुनिसिद्धान्तिकश्रीनेमिचन्द्रप्रतिपादितानां द्रव्याणां स्वल्पबोधप्रबोधनार्थं संक्षेपार्थतया विवरणं करिष्ये । 1) जीवमजीवं दव्वं जिणवरवसहेण जेण णिद्दिट्ठ । देविदविदवंद वंदे तं सव्वदा सिरसा ॥ अर्हन्तं जिनवरं वंदे नमस्करोमि, कथम्भूतं देविदविदवंदं देवानाम् इन्द्राः देवेन्द्राः तेषां वृन्दाः समूहाः तेषां वन्द्यं पूज्यम्, कदा वन्दे सव्वदा सर्वकालं यावत् सरागपरणतिस्तावद्वन्दे, न वीतरागावस्थायां तदात्मनस्तत्पदप्राप्तेर्न कस्यापि कोऽपि वन्द्यः अतीतानागतवर्तमानकाले वा, केन वन्दे सिरसा मस्तकेन तं कं वन्दे जेण जिणवरवसहेण णिद्दिट्ठ येन जिनवरवृषभेण निर्दिष्टं प्रतिपादितम्, जिनवराः गणधरदेवादयस्तेषां मध्ये वृषभः प्रधानः, जिनवरश्चासौ वृषभनाथश्च तेन जिनवरवृषभेण किं निद्दिष्टं जीवमजीवं दव्वं जीव द्रव्यमजीवद्रव्यं च जीवद्रव्यस्य का व्युत्पत्तिः व्यवहारनयेन दशभिः प्राणैः सह जीवति वर्तमान काले, जीविष्यति भविष्यत्काले जीवितः पूर्वं अतीतकाले निश्चयनयेन चतुभिः प्राणैः सत्तासुखबोधचैतनैर्जीवति स जीवः । तत्प्राणमाह Jain Education International 1 "पंच वि इंदियपाणा मणवचिकायेण तिष्णि बलपाणा । आणप्पाणप्पाणा आउगपाणेण हुंति दस पाणा ||" इति जीवः । [ गोम्मटसारजीव गा० १३०] अजीवद्रव्यस्य किं स्वरूपम्, पुद्गलधर्माधर्माकाशकालरूपम्, द्रव्यस्य किं लक्षणम् - द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् । द्रवति पर्यायं गच्छति, द्रोष्यति पर्यायं यास्यति, अदुद्रुवदितिपर्यायं गतवत्पूर्वं तदपि गुणपर्ययवत्, गुणपर्ययवद् द्रव्यम् । अन्वयेन सह संभवाः गुणाः । व्यतिरेकिणो भिन्नाः पर्याया । ते च गुणाः द्विभेदाः, साधारण असाधारणश्च । पर्याया उत्पादव्ययरूपाः । तत्र जीवस्य साधारणाः, अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वं चेतनत्वं अमूर्त्तत्वं चेति । असाधारणाः सम्यग्दर्शनज्ञानचारित्राख्यानि, पर्यायाः देवमानुषनारकतिर्यक्त्वे केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रिया इति । पुद्गलस्य स्वरूपमाह - " अविभागीपरमाणुद्रव्यपुद्गलः तथा च जलानलादिभिर्नाशं यो न याति स पुद्गलः " [ ] इति वचनात् । स च १. कायेसु, होन्ति, दह । गो. सा. । For Private & Personal Use Only संकाय पत्रिका - २ www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy