SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 1T श्रीन्यायसिद्धान्तप्रवेशकन्धिका स्मृतं स्मृतम् । वृत्त्यनियामकसम्बन्धेन स्वामित्वादिना न प्रतियोगिमत्ताबुद्धिः कुत्रचिद् भवति येन सा स्वाऽभावबुद्धिं [प्रति प्रतिबन्धिका स्यात्, इति वृत्यनियामकसम्बन्धावच्छिन्नप्रतियोगिसा(ता)काऽभावोऽप्रामाणिक इति । किमरे ! यत् त्वयोच्यते 'कुत्रचिदपि वृत्त्यनियामकसम्बन्धेन प्रतियोगिमत्ताबुद्धिर्न जायते' तत्र किञ्चित् पृच्छ यते । सानुग्रहम् । यद्येवमुच्यते तदा कथं 'गोमी ति तद्धितः ? तेनाऽधिकरणत्वस्यैव बोधनादिति । श्रीचरणैरयं दासः परीक्ष्यत इति मन्ये । यतोऽन्यत्र बहुधैतद्विषये सम्बन्धसामान्ये मत्वर्थीया भवन्तीति शिक्षितोऽप्यहं पृच्छयत इति । साधु साधु, न विस्मृतम् । अनेन हि प्रतिपादनेन 'स्वामित्वसम्बन्धेन गोस म्बन्धी' त्येव निरणायि त्वया, न तु स्वामित्वसम्बधेन गवाधिकरणमिति निश्चितं मया । नन्वेवं श्रीगुरुनाथ ! विशेषरूपेण सामान्याऽभावोपि नातिरिक्तः स्वोकर्त्तव्यः, सोऽपि विशिष्टाऽभावोऽस्तु । __ सत्यम् । यद्यपि नीलघटो नास्तीत्ययमभावो यत्र तत्रैव नौलत्वेन घटो नास्तीति विशेषरूपेण सामान्याभावोऽपि वर्तते । यतो नहि नीलघटवति भूतले नीलत्वेन घटो नास्तीत्ययमभावः, किन्तु नीलघटशून्य एव भूतले । एवं नीलस्वेन घटो नास्तीत्ययमभावो यत्र नीलघटशून्ये प्रदेशे प्रतीयते तत्रैव नीलघटो नास्तीत्ययं विशिष्टाऽभावोऽपि प्रतीयत इति तो समनियाताविति विशिष्टाऽभाव एव विशेषरूपेण सामान्याऽभाव इति तत्राशयः । तथाप्यस्ति कश्चिदनयोविंशेषः तर्हि मय्युपदिशन्तु श्रीमन्तः । उपदिश्यते । शृणु । नीलघटाऽभावीया प्रतियोगिता नीलघट एव वर्तते । नीलत्वेन घटो नास्तोत्यस्याऽभावस्य तु घटसामान्ये वर्ततेऽतस्तयोर्द्वयोर्भेदः । किं कारणम् । शृणु। नोलघटाऽभावीय प्रतियोगितावच्छेदकं नोलघटत्वं, तेनावच्छिन्ना प्रतियोगिता नीलघट एवारि । बुद्धं बुद्धम् । किं बुद्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy