SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ५८ श्रीन्यायसिद्धान्तप्रवेशकन्थिका यत्त्वया घटाऽभावीयप्रतियोगितावच्छेदकपर्याप्त्यवच्छेदक किमिति पृच्छन्तं मां प्रति पर्याप्त्यवच्छेदकं पर्याप्तित्वमेवेति महता समारम्भेणोत्तरितम् ! । नहि नहि । गन्धवत्वलक्षणस्य लक्ष्यतावच्छेदकं पृथिवीत्वं भवति । एवं नु किल तर्हि प्रकृते घटाऽभावीयप्रतियोगितावच्छेदकतापर्याप्त्यवच्छेदकं पर्याप्तित्वं भवेदन्यद्वा ? । . इदानी प्रबुद्धोऽस्मि । नहि पर्याप्तित्वं, पर्याप्त्यवच्छेदकं, किन्तु यत्र घटत्वे पर्याप्तिस्तवृत्तिधर्म(मों) घटत्वत्वं एकत्वं वा अवच्छेदकं भवेत् । परन्तु.... ... निःशङ्कं पृच्छ । मा भैषीः ।। पृच्छयेत (पृछचते) । घटसामान्याऽभावप्रस्तावे कोऽयमप्रकृत इवावच्छेदकपरम्पराप्रस्तावो वर्धमानहनुमल्लाङ्गुलमिव ? । अस्त्वेतत् किमपि । परं त्वयाऽवगतं न वा १ । श्रीमदनुग्रहादवगतम् । परं किमनेन घटाऽभावीयप्रतियोगिताऽवच्छेदकतापर्याप्त्यवच्छेदकेन ज्ञातेन घटसामान्याऽभावे भविष्यतीति न जानामि । । उच्यते । येयं घटाऽभावीया घटनिष्ठा प्रतियोगिता दृश्यते, सेदानी घटत्वगतेकरवे नेया । पश्यामि तु किल तव कौतुकम् । एवं वा, ज्ञातं तर्हि शनैः शनैरेतावता प्रबन्धेन बुद्धिवर्धनं दयालुभिः कृतम् । उच्यते । या हि घटाऽभावीया प्रतियोगिता स्वरूपसम्बन्धेन घट(टे) वर्तते, सैवाऽनेनाऽखण्डदण्डायमानेन घटत्वगतैकत्वे विराजमाना परिदृश्यते । 'अनेनाऽखण्डदण्डायमानेन' इति किम् ? । नाऽयमाल स्याऽवसरः । स्पष्ट वद । उच्यते । स्वावच्छेदकतापर्याप्त्यवच्छेदकत्वसम्बन्धेऽपि घटाऽभावीया प्रतियोगिता घटत्वगतैकत्वे गतेति स्पष्टं निरीक्ष्यते । साधु साधु । फलितो मे श्रमद्रुमः । एवं तर्हि घटसामान्याऽभाव इत्यस्य न 'घटनिष्ट (ष्ठ)प्रतियोगिताकाऽभाव'(इत्यर्थः) । किन्तु घटत्वगतैकत्वनिष्ट(ष्ठ)प्रतियोगिताकाऽभाव' इत्येवार्थः । प्रतियोगितायां घटत्वनिष्टै(ष्ठै)कत्वनिष्ट(ष्ठ)त्वं च पूर्वोक्तसम्बन्धेनेति । अहों ! कोऽयं चमत्कार इन्द्रजाल इव । न चमत्कारः । इममनुगमप्रकारमाहुर्जरन्नैयायिकाः । एवमेव सर्वत्र बोध्यम् । एवं क्रमेण घटाऽभाव इत्युक्तौ प्रागिव घटपटोभयाऽभाव उक्तो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy