SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२० भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएं तत्वमस्तीति योगस्य कारणत्वमव्यावहतमेव । अथवा तृणारणिमणिन्यायेन प्रयत्नसाचिव्येन येन योग आत्मदर्शनार्थ साधितः तत्र तस्य कारणत्वं निर्वाधमेव । किं च पारमार्थिकसत्यत्वदृष्टया न्यायादीनां षण्णां दर्शनत्वं प्राचीनः यथा साधितं तथा तत्र तत्र प्रतिपादितस्यार्थस्य याथार्थ्यसंपादनाय अपेक्षिताः पूर्वपक्षा यत्र तानि नास्तिकशास्त्राण्यपि दर्शनान्येव । आन्वीक्षिकीत्वस्यैव लोकायते मन्तव्यानि । व्यावहारिकपारमार्थिकसत्यत्वानुरोधेन शास्त्राणां दर्शनत्वं स्वीक्रियते । प्रातिभासिकसत्यत्वानुरोधेन तु प्रतिभातं उपादानसमसत्ताकं व्यावहारिककाले वाधितत्वात्, असत्वात्, अनीतिमत्वात्, अप्रतिष्ठितत्वात्, दुःखसाधनत्वात् दर्शनेष न संगृह्यते । इत्येवं रीत्या दोषाणां प्रातिभासिककारणानां दर्शनत्वं नानुमतम् । अतो व्यावहारिककालेऽपि जीवनस्य सार्थक्याय' यथार्थलाभाय च वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम् । तेनैव च ईशस्य पूजा संसेव्यताम् । तदैव च इहलोके परत्र च शम् । इति । परिसंवाद-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014014
Book TitleBharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Original Sutra AuthorN/A
AuthorRadheshyamdhar Dvivedi
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages366
LanguageHindi, English
ClassificationSeminar & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy