SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ "अद्य उपवासप्रत्याख्यातः' - प.पू. आ.कलाप्रभसूरिः अधुनैव कच्छदेशीय-चित्रोऽग्राम वास्तव्येन श्रीमणिलाल महाभागेन कथितं यत् पू. हिमांशुविजयाः पू. नररत्नविजयाश्च (प्रायेण वि.सं. २०१६) अस्मदीये ग्रामे समागताः। अस्माभिः ते विज्ञप्ताः पूज्यवराः आहारार्थं समागच्छन्तु तत्र भवन्तः । तैरुक्तं अत्र कियन्ति जैन-गृहाणि ? अस्माभिः कथितं दशमितानि वर्तन्ते प्रायेणः। "अस्माभिस्तु अद्य उपवासः प्रत्याख्यातः । यतः अत्र चत्वारि एव गृहाणि वर्तन्ते इति अस्माभिः श्रुतमासीत् । दोषिताऽऽहारभयादेव एवं कृतमस्माभिः।" इति तेषां प्रतिवचनं श्रुत्वा अस्माकं मस्तकानि नतानि तेषां चरणेषु । तस्मिन् वर्षेच कच्छदेशस्थ - 'अङ्गीया' ग्रामे चातुर्मासं तैः विहितमासीत् । एकदा सिद्धचक्रपूजनप्रसङ्गे पण्डितधनंजयमुखात् ब्रुतमासीत् - एतैः महापुरुषैः गिरिनारतीर्थे षोडशोपवासान् प्रत्याख्याय प्रतिदिनं पादाभ्यामेव उज्जयन्त तीर्थयात्रां विधाय एकादशे उपवासे ततः शत्रुञ्जयं प्रति प्रस्थितम् । पादाभ्यामेव गत्वा यात्रां च कृत्वैव ते वसतौ स्थिताः । एवं द्वात्रिंशतिउपवासेषु तैः प्रतिदिनं यात्रा विहिता । पारणकदिनेऽपि यात्रां कृत्वैव अपराहने चतुर्वादनवेलायामेव आचाम्लतपः विहितम् । एते महातपस्विनः आसन्-इति तु प्रायः सर्वेजानन्ति एव, किन्तु एते अस्मद्गुरुवर्यकलापूर्णसूरीश्वराणामपि महान्तः उपकारिणः आसन् । यतः तैः गृहस्थावस्थायां विधिपूर्वकं चतुर्थ व्रतं एतन्महात्ममुखादेव गृहीतमासीत् । । यद्यपि एते महात्मानः बहुशः मिलिताः सन्ति, परन्तु तस्मिन्नवसरे समयाभावात् अधिकः परिचय न जातः परं यदायदा वयं तेषां सान्निध्ये गताः तदा तदा सदैव मुखे प्रसन्नतैव दृष्टा । तपस्विनां मुखे प्रसन्नतादर्शनं प्रायेण दुर्लभं भवति, परन्तु एते पूज्याचार्याः तपस्विनः अपूर्वा प्रसन्नतामपि धारयन्ति स्म । “तपकरीए समता राखी घटमां" इति उक्तिं स्मारयति स्म तेषां प्रसन्नता । महामहिमशालिनां तेषां आचार्यप्रवराणां चरणेषु अनेकशः नतिततयः सन्तु। TO PUTUSE UNY www.jainelibrary.org
SR No.012070
Book TitleVismi Sadini Viral Vibhuti Part 02
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherSahasavan Kalyanakbhumi Tirthoddhar Samiti Junagadh
Publication Year2009
Total Pages246
LanguageGujarati
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy