SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ।। जयन्तु वीतरागाः ।। 'श्रीवल्लभगरुसक्षिप्तचरित्रस्ततिः बाल्यभावात्तदीक्षाय आबाल्यब्रहमचारिणे । ब्रह्मतेजोऽलकृताय नमो बल्लभसूरये ।।१।। विजयानन्दसूरीन्द्रपादसेवाप्रभावतः । प्राप्तज्ञानादिकौशल्यः जयतात सरिवल्लभः ।।२।। शान्तो धीरः स्थितप्रज्ञो दीर्घदर्शी जितेन्द्रियः । प्रतिभावानुदारक्ष्च जयताद् गुरुवल्लभः ।।३।। ज्ञातं श्रीवीरधर्मस्य रहस्यं येन वास्तवम् । धारितं पालितं चापि जयतात् सूरिवल्लभः ।। ४।। श्रीवीरोक्तद्रव्यक्षेत्रकालभावज्ञशेखरः । अतज्ज्ञतन्मार्गदर्शी जयताद् गुरुवल्लभः ।।५।। जागरूकः सदा जैनशासनस्योन्नतिकृते । सर्वात्मना प्रयतिता जयतात् सूरिवल्लभः ।।६।। जैनविद्यार्थिसज्ज्ञानवृद्धयै विद्यालयादिकाः । संस्थाः संस्थापिता येन जयताद् गुरुवल्लभः ।।७।। पान्चालजैनजनताधारस्तद्धितचिन्तकः । तद्रक्षाकारी प्राणान्ते जयतात् सूरिवल्लभः ।।८।। साधर्मिकोद्धारकृते पन्चलक्षीमसूत्रयत् । रुप्याणां मुम्बईसवाद् जयताद् गुरुवल्लभः।।९।। विजयानन्दसूरीशद्रता विश्वकामनाः । प्रोद्मविता यथाशक्ति जयतात् सूरिवल्लभः ।। १०।। जीवनं जीवितं चारु चारित्रं चारु पालितम् । कार्य चारु कृतं येन जयताद् गुरुवल्लभः ।।११।। मुनि पुण्यविजयः । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.012062
Book TitleAtmavallabh
Original Sutra AuthorN/A
AuthorJagatchandravijay, Nityanandvijay
PublisherAtmavallabh Sanskruti Mandir
Publication Year1989
Total Pages300
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy