________________
NO
N
॥ जयन्तु वीतरागाः॥ श्रीवल्लभगुरुसक्षिप्तचरित्रस्तुतिः
बाल्यभावात्तदीक्षाय आबाल्यब्रह्मचारिणे।। ब्रह्मतेजोऽलड्कृताय नमो वल्लभसूरये ॥१॥ विजयानन्दसूरीन्द्रपादसेवाप्रभावतः। प्राप्तज्ञानादिकौशल्यः जयतात् सूरिवल्लभः ॥२॥ शान्तो धीरः स्थितप्रज्ञो दीर्घदर्शी जितेन्द्रियः । प्रतिभावानुदारश्च जयताद् गुरुवल्लभः ॥३॥ ज्ञातं श्रीवीरधर्मस्य रहस्य येन वास्तवम् । धारितं पालितं चापि जयतात् सूरिवल्लभः ॥ ४ ॥ श्रीवीरोक्तद्रव्यक्षेत्रकालभावज्ञशेखरः। अतज्ज्ञतन्मार्गदर्शी जयताद् गुरुवल्लभः ॥५॥ जागरूकः सदा जैनशासनस्योन्नतिकृते । सर्वात्मना प्रयतिता जयतात् सूरिवल्लभः ॥६॥ जैनविद्यार्थिसज्ज्ञानवृद्धयै विद्यालयादिकाः। संस्थाः संस्थापिता येन जयताद् गुरुवल्लभः ॥ ७॥ पाञ्चालजैनजनताधारस्तद्धितचिन्तकः । तद्रक्षाकारी प्राणान्ते जयतात् सूरिवल्लभः ॥८॥ साधर्मिकोद्धारकृते पञ्चलक्षीमसूत्रयत् । रूप्याणां मुम्बईसवाद् जयताद् गुरुवल्लभः ॥९॥ विजयानन्दसूरीशहृद्ता विश्वकामनाः । प्रोद्भाविता यथाशक्ति जयतात् सूरिवल्लभः ॥ १०॥ जीवनं जीवितं चारु चारित्रं चारु पालितम् । कार्य चारु कृतं येन जयताद गुरुवल्लभः ॥११॥
मुनि पुण्यविजयः।
जER1
ht
CREE
PEEEEEEL
PRAMLEELAMITAMBEDARDARSHUPARREARS
LATESSADYA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org