SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ मुनिश्री विचक्षणविजयजी यः सिद्धाचलतीर्थराजमयजत् श्रीमारुदेवप्रभुं । स्तोत्रैर्वाक्पतिनिर्मितैरिव भवभ्रान्तिप्रभेदेच्छया ॥ सत्त्वोद्रेकवशादथ व्यवसितं ब्रह्मास्म्यहं केवलं । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥५॥ यो वैराग्यमहानरेन्द्रमवशं वश्यं विधायाप्यहो! । चित्तैकाग्र्यसमृद्धिलुण्टनपरान् क्षेपानजैषीद् भृशम् ॥ शान्त्या चन्द्र इव प्रसादितजनैः सोल्लासमालोकितो । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥६॥ दृष्ट्वा यस्य महामुनेरभयदं सद्धर्मरागं शुभं । आचार्यस्य गुणावली च विमलां जैनप्रजाऽदादिमाम् ॥ जैनाचार्य इति प्रसिद्धपदवीं विद्वजनैराहतां । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥ ७ ॥ यः सौभाग्यपरम्परामनुभवस्तीर्थाटनं चक्रिवान् । अज्ञानोपहताँश्च जीवनिवहानुदबोधयन् युक्तितः ॥ श्रीमद्भागवतं पदं स्मृतिपथं नीत्वा च नाकं गतो । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥ ८॥ आत्मारामाष्टकमिदं, यः पठेत्प्रयतः शुचिः। शास्त्रोदितां लभेतात्म-संपत्तिं नात्र संशयः॥ शताब्दि ग्रंथ .:२१७:. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy