SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ मिले Jain Education International यतीन्द्रसूरि स्मारकग्रन्थ परिशिष्ट कुतोऽपि नाऽऽत्मनीनमाश्रयं प्रपद्य सादरं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ॥२॥ समस्तमानसान्धकारमाशु संप्रलीयते, यदीयदेशनादिनेशदीपितेऽनिशं भृशम्। जगन्ति मोदमावहन्ति हन्यते च किल्विषं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।३।। कृपाकटाक्षधोरणीनिरुद्धदीनदैन्यकं, जिनोक्तधर्मधारणाज्जितोरुकामसैन्यकम् । अगण्यपुण्यसञ्चयाज्जनैरतः प्रपूजितम्, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।४।। अनेकजीर्णशीर्णतीर्थमन्दिरस्य कारिता, समुद्धतिर्द्वतञ्च येन मानवस्य वारिता । अधोगतिः सतां मतं मुमुक्षुभिश्च वन्दितं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।५ ।। अतिष्ठिपत्सुबिम्बमर्हतामनेकमर्हतां, चिरागतप्रभूतकर्मकर्तने पटीयसाम् । व्रतोपधानकर्मकारितञ्च येन भूरिशो, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।। ६ ।। अजेयकामकोपलोभमोहमत्सरानरीं, सुहेलया विजित्य शेमुषीमिवाप्य सत्तरिम् । ततार योऽतिदुस्तरं भवं तमानतोऽहकं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।७।। गुरो ! गुणैर्गरिष्ठतावकीनकीर्त्तिकीर्तना दियत्तया न संहतं वचस्त्वशक्तितो मया । तथापि तत्तवेप्सितं पदं सुनाम संरटन्, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।८।। शार्दूलविक्रीडितछन्दः यः प्रातःस्मरणीयतामुपगतो राजेन्द्रसूरीश्वरस्तच्छिष्यप्रवरस्य सूरिनृपतेः श्रीमद्यतीन्द्रप्रभोः । पादाम्भोरुहचञ्चरीकसदृशं श्रीवल्लभेनाष्टकं, देयाच्छं मुनिना कृतं सुपठतां नणामदः सन्ततम् ।। ১টট[ २५ ] প For Private Personal Use Only ট www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy