SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रद्धा का अर्घ्य : भक्ति-भरा प्रणाम : २४६ : जैन-दिवाकर-मुनि श्री चौथमल्लजित्प्रशस्तिः श्री नानालाल जवरचन्दजी रूनवाल, बी० ए० मन्त्री-संस्कृत परिषद, झाबुआ (मध्य प्रदेश) जयति भगवान् वीरो, जयति जिनशासनम् । सद्धर्मस्य प्रणेतारो जयन्ति मुनिपुगवाः ।। मुनिश्चौथमल्लः सुधर्मोपदेष्टा, प्रजातः पुरे नीमचे ख्यातनाम्नि । पिता तस्य गंगायुतो रामसंज्ञस्तदम्बा च सुश्राविका केशराख्या ।। प्रभावोत्पादि वक्तृत्वं व्यक्तित्वमपि चाद्भुतम् । वाणी संमोहिनी तस्य शैली वाह्लाददायिनी ।। मेदपाट-महाराणा-श्रीमत्फतहसिंहजित् । कृतवान् दर्शनं तस्य श्रुतवान् धर्मदेशनम् ।४। (भुजंगप्रयातम्) अनेके नरेशास्तथामात्यवर्गाः, पुरश्रेष्ठिवर्याश्च विद्वद्वराश्च । सवर्णा अवस्तिथा मुस्लिमा वाऽभवन् भक्तिनम्रा जनानां समूहाः ।। गतो यत्र तत्रापि धर्मप्रचारोऽभवत् सर्ववर्गेषु वर्णेष्वबाधः । सभायां जना मन्त्रमुग्धाः प्रजाता मुनेः शीर्षकम्पेन साधं समस्ताः ।। (उपजातिवृत्तम्) धर्मप्रचारेण च भूयसाऽसाववाप कीति विपुलां विशुद्धाम् । मान्योऽभवज्जैन दिवाकरेति वक्ता प्रसिद्धश्च जनप्रियश्च ।७। मुनिसंधैक्यकार्यार्थं यत्नशीलोऽभवन्मुनिः । कृतवान् सम्प्रदायस्य विलीनीकरणं तथा ।। आयुषश्चान्तिमे वर्षे धर्माराधनतत्परः । कोटानाम्नि पुरेख्याते वर्षायां न्यवसन्मुनिः ।। तत्र संयुक्तरूपेण श्वेताम्बरैदिगम्बरैः । सम्मिल्य मनिभिः साधं कृतवान् धर्मदेशनाम् ।१०। मुनिखाकाशनेत्राब्दे शुक्लपक्षेऽग्रहायणे । तत्रैवासौ दिवं यातो नवम्यां रविवासरे ।११। रविवारे मुनेर्जन्म दीक्षापि रविवासरे। व्याख्यानमन्तिमं चैव स्वर्वासोऽपि च तद्दिने ।१२। (उपजातिवृत्तम्) यद्यप्यसावद्य न भौतिकेन देहेन भूलोकमलंकरोति । यशः शरीरेण विधास्यतीह स्थिति स यावत् क्षितिचन्द्रसूर्याः ।१३। (मन्दाक्रान्ता) आदिष्टः सन्नजितमुनिना लेखनाय प्रशस्ते लॊके संघे सविदितमनेश्चौथमल्लस्य पद्य। नानालालोऽर्पयति मुदितो ह्यलिं श्रद्दधानः काँक्षन्ने षा भवतु भविकान् प्रेरयित्री सुमार्गे ।१४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012021
Book TitleJain Divakar Smruti Granth
Original Sutra AuthorN/A
AuthorKevalmuni
PublisherJain Divakar Divya Jyoti Karyalay Byavar
Publication Year1979
Total Pages680
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy