SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 42 नारायण म० कन्सारा स्वाङ्ग इत्यादि । स्वाङ्ग सुहुन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धम् । स्वाङ्गादिष्वर्थेषु धर्मादयो नप् । स्वाङ्गे धर्मसाधने क्रियाकल्पे । इदं धर्मम् । एतानि धर्माण्यासन् । सुहृदि, मित्रं सखा । न्यायादनपेते, इदं सारम् । दले समप्रविभागे । अधं पिप्पल्याः । एषु किम् ? एष धर्मः सनातनः । मित्रो रविः । सारः प्रधानम् । ग्रामार्धः । उ निपातः । कर्मभावेऽणादिः समूहे च कृदच्च भावे । कर्म । पथोऽत् । अदन्तस्तद्धितभावे नप् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । आधिपत्यम् । भावे श्वेतत्वं श्वैत्यम् । काष्यं, दाढ, गौरवं मार्दवं, स्तेयम् । अदन्तः किम् ? ग्रामता, गरिमा । समूहे भैक्षं, कापोतं, राजन्यकम् अश्वीयम् । कृदपि भावप्रत्ययान्तो नप् । हसितं तस्य । शोभनं भक्तम् । लब्धं सिद्धम् । करणम् । सांराविणम् । सान्द्रविणम् । वर्तते णिन् । ततोऽण् | आसितव्यं, शयनीयं, स्थेयम्, अवध्यं कार्यम्, ईषदाढ्यंभवं देवभूयं गतः । देवत्वं गत इत्यर्थः । अत् किम् ? कृपा, कृतिः, भिदा । घणाद्यन्तानां तु पुंल्लिङ्गं वक्ष्यति । अध्वरः घनः, किकान्त (?) इति । भक्तम् अन्नम् ओदनः । आस्पदं प्रतिष्ठा । यवसं घासः । पुरीतत् अन्त्रम् ॥ ५ ॥ ललाटविटे पिटं कुटुम्ब समीपदम् । कुसीदमृणं गुदं कुकुन्दरचामरे || ६ || कारणकारकलोष्टक रोटं साहसकुङ्कुमकित्वनिरुक्तम् । अक्षरमन्तरमूषरदेवतबाहु च जानु कसेरु च वैरम् ॥ ७ ॥ सिध्मेध्मकुर्पोडुपयुग्मगुल्मश्राद्धं गृहस्थूणशरोर्णरत्नम् । चिह्नान्तरी पोक्थबिसार्धंटाहः पात्रोल्मुल्काभ्रं कुलिशं कलत्रम् ॥ ८ ॥ लोकायतालीढभगेङ्गुदाङ्गं स्फारं शर्फ गह्वरबाष्पशष्पम् । शालूकवृन्दं पदराजसूयं सूक्तं प्रियं तुम्बरुवाजपेयम् ॥ ९ ॥ कान्तारतीरे शिशिरं करीरं शृङ्गाङ्गदूराररिभाण्डसक्थि | क्षूणोष्णपीठं शवगन्धमादने चैकपुण्यात् सुदिनादहं स्यात् ॥ १० ॥ Jain Education International कुहक चिबुके लिङ्गं बीजं कणिशबडिशे शीर्षाक्ष्यण्डं सबुसपलिशे रूपं तत्पं क्रकचशरणे शिल्पं पृष्ठं कुहकेत्यादि । अतो अदन्तादिपुंस्त्रीत्वे प्राप्ते नप् । कुहकमित्यादि सुगमम् । यावद्दशमान्ते एकपुण्यात् सुदिनादहं स्यात् । कृतसमासान्तम् । एकाहं, पुण्याहं सुदिनाहम् ॥ ६-१० ।। किसलयजगञ्च भुवनं त्रिविष्टपं कशिपुपञ्जरं कलभम् । प्रातिपदिकं कुटीरं यदप्यव्यक्तलिङ्गोक्तौ ॥ ११ ॥ तथा अव्यक्तलिङगेतौ । अव्यक्तस्यास्पष्टस्य लिङ्गस्योक्तावभिधाने यत् प्रयुज्यते तन्नप् । किं तस्यागमे जातम् ? यत् तत्रोत्पद्यते तदानेयम् । इमानि गोरूपाणि गावो बलीवर्दाश्च समेता उच्यन्ते । भूतानि सर्वे प्राणिनः । सप्तमी किम् ? यच्छिष्टैरव्यक्तलिङ्गोको प्रयुज्यते तन्नप् । तेन सुतशिशुगोसिन्धुशब्दानां न नप्त्वम् ॥ ११ ॥ सङ्ख्येय सङ्ख्यैकपराशताद् यत् आन्तर्दिगुर्डस्तिसुरानिशाच्छा- । याशालसेनानगराचिषोऽत्विश् अर्धर्चवाराशनमन्धकारः ।। १२ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy