SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ O Jain Education International १३४ श्री पुष्कर मुनि अभिनन्दन ग्रन्थ यस्य देवसमस्य सन्ततमस्ति दृष्टिविशेषता, हेतुनेति जनाः कलाः परिहाय सत्यविवेकतः । यन्ति तस्य मुनेः समीपमशेषपुण्यभृतश्च ये, पुष्करस्य गुणाः शतं गणयन्तु नाम दिवानिशम् ॥७१॥ एवमेव समीक्ष्य चेतसि नित्यचञ्चलवृत्तयः, दूरतो विहरन्त्यतोऽपि तु गौरवं परमेधते । पुष्करस्य मुनेः स्वयं महिमानमेव विदन्ति ते, ये जनाः कृतबुद्धयोऽविरतं जपन्ति जिनेश्वरम् ॥७२॥ केsपि नाम वदन्तु किञ्चिदपीह किन्तु विशेषताम्, पुष्करस्य मुनेः सदा सुविदन्ति तत्त्वविपश्चितः । मादृशा ममतादृशोऽपि भवेयुरेव विचेतसः, किन्तु दुःखमिदं यदा परितः क्षिपन्ति सुमेधसः ॥७३॥ करुणागुर्णाणवसेतुकम्, तं नमामि जगत्पति यो बिर्भात जिहति विश्वमशेषमेव निजेच्छया । कार्यकारणशक्तिमान् भगवानसौ त्रिगुणात्मकः, आत्मनामतदात्मकश्च पिपत्ति सर्वमहेतुकम् ॥ ७४ ॥ वर्णनेन समर्थयामि मुनेरहं यशसोऽद्भुतम्, रूपमेव कथात्मकं ननु पुष्करस्य महात्मनः । केवलं गुणवर्णनं कथया पुनाति कवि परम्, पुष्करस्य मुनेर्निशम्य कथां गुणस्य तरन्ति ते ॥७५॥ पुण्यभावनयानया परिनुन्न एव यशोमुनेः, वर्णयेयमहो स्वतोऽपि भवेदिदं त्वभिनन्दनम् । एतदेव विचार्य चेतसि चिन्तनात्मकवर्णनम्, काव्यमस्तु सतां गणेऽपि च तन्मुनेरभिवन्दनम् ॥ ७६ ॥ कवित्वशक्तस्तु परा कथा व्यथा, यथायथं वर्णनमेव तत्कथम् । अनाथतां रोदिति रे पदव्यथा, कथेयमस्त्यप्यकथस्य मे तथा ।।७७ || अतोऽनुभावोऽयमहो महामुनेः, यतोऽहमेवं गुणवर्णनेऽभवम् । प्रभुः प्रभोः पुष्करदैवतस्य ते, पदं परं प्रति यत्थात्मनो जनः ॥ ७८ ॥ अहो मया भव्यपदेन्द्रवन्दितः प्रभुर्गुणानां गुणिभिर्विनन्दितः । स्तुतो मुनिः पुष्करनामधेयितः उपाध्युपाध्यायविभूषितोऽप्यसौ ॥ ७६ ॥ मया रमाशङ्करशास्त्रिणा स्वतः, गुणैरुपेतोऽप्यगुणेन पूजितः । सदाभिनन्द्यो मुनिपुष्करोऽप्यसौ, सुपुष्पशब्दैरपि पुष्करो मुनिः ||८०| कथापि भूमौ विबुधप्रियेत्यतः, यथार्थनाम्नो मुनिपुष्करस्य नः । ततोऽहमन्वर्थ- परेण तां कथाम् वृणोमि नाम्ना मधुरेण छन्दसा ॥ ८१ ॥ 与 For Private Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy