________________
१२८
श्री पुष्करमुनि अभिनन्दन ग्रन्थ
यः परोपकृतौ रतोऽपकृतौ सदा विरतोऽपि सन, ज्ञानिमनिमतोऽपि सन्नयमस्ति पापिजनप्रियः। विक्रियेषु जनेषु सक्रिय एव सत्सु समुत्क्रियः,
पुष्करो मुनिषूत्तमो मुनिरेक एव विराजते ॥१७॥ यस्य शिष्यगण: प्रियोऽस्ति सुभक्तिभावभृतां सताम्, मानुषाः प्रणमन्ति तं गुणरत्नराशिविलासिनम्। हेतुरस्ति महामुनिः स्वयमेव तस्य विधायकः,
पुष्करोऽयमहो महोदय ! शोभते सरसीजले ॥१८॥ सन्तिदेवसमा जना भुवि सत्त्वतत्त्वसुमूर्तयः, किन्तु ते न हि तत्समा भुवनेऽखिलेऽपि गवेषणे। अस्य हेतुरपि स्फुटं प्रतिभाति रत्नपरीक्षणे,
सन्ति ते मुनयः परन्तु यथापि किञ्चिदिहान्तरम् ॥१६॥ हास्यभावरसेन यो मुनिराज आत्मविचारणाम्, शुष्करूपधरामसावपि तत्त्ववृत्तकथानकैः । वर्णयन्नभितः परं रसरज्जनर्मनुजानमून्,
येऽनभिज्ञजना समे समबोधयत्पुनरेव तान् ॥२०॥ साम्प्रतं मनुजेषु कृत्रिमवृत्तिषु प्रतिभाव्यते, जैनतत्त्वविभूतिरेव सदाशया न महाशयैः । मानुषैरत एव तां श्रुतयुक्तिभिः प्रथितामयम्,
पुष्करी मुनिराज एव विबोधयन्नधिशोभते ॥२१॥ जैनतीर्थशिरोमणेः श्रमणस्य वीरवरस्य यः, ज्ञानसूर्यविभायुतं मुनिमण्डलं स्वयत्यसो। तस्य सत्प्रभया विभासितमेव जैनजगद् भवेत्,
ईदृशो मुनिपुष्करो ननु शोभते भुवि पुष्करः ।।२२।। यस्य दृष्टिसमन्वयेन नवीनवृत्तिपरानरा:, राष्ट्रियाः समुपेत्य तं मुनिराजमेव गदन्ति ते।
साम्प्रतं भवता समं मुनयो न दृष्टिपथं गताः,
__येऽपि सन्ति च ते समे खलु रुढिरीतिपरायणाः ॥२३॥ सर्व एव जना मुनि सममादरन्ति समासत:, पुष्करं भगवन्तमेव हि मन्वते मुनिसेवकाः। केवलं कथनीयमन्तरमस्ति जैनजनेषु यत्,
ते गृणन्ति गुणान् जनस्य परे तु हार्दिकभावनाम् ॥२४॥ सर्व एव मुनीश्वरा जिनधर्ममेवमुपासते, किन्तु पुष्करदैवतस्य मुनीश्वरस्य मतान्तरम् । अस्ति यन्ननु धामिका अपि जैनधर्ममताश्रिताः,
राष्ट्रिय जनशासनं निरुपद्रवं जनयन्ति ते ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org