SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખ તથા પ્રશરિતલેખ : ૩૧૫ श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । नाभौ स्वयम्भुवि वसत्यपि निर्विशङ्क शङ्के स चुम्बति हरिः कमलामुखेन्दुम् ॥ ३५॥ स एष निःशेषविपक्षकालः श्रीवस्तुपालः पदमभूतानाम् । यः शङ्करोऽपि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ ३६॥ चीत्कारैः शकटवजस्य विकटैरश्वीयहेषारवै रारावै रवणोत्करस्य बहलैः बन्दीन्द्रकोलाहलैः । नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्तये मन्त्रोच्चारमिवाऽऽचचार चतुरो यस्तीर्थयात्रामहम् ॥ ३७॥ ॥ एते मलधारिनरेन्द्र प्रभ]सूरीणाम् ॥ श्रीरैवताचलस्थश्रीशत्रुञ्जयावतारप्रवेशे वाममित्तिगा प्रशस्तिरेषा ॥ छ । प्रशस्तिलेखाङ्क–२ श्रयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो यत्पादाब्जपवित्रमौलिरसमश्रीरुज्जयन्तोऽप्ययम् । धत्ते मूर्ध्नि निजप्रभुप्रसृमरोद्दामप्रभामण्डलै विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥१॥ प्रीतिं पल्लवयन्तु वो यदुपतेर्देवस्य देहातो भृङ्गामा: शशिकुन्दसुन्दररदज्योतिश्छटालङ्कताः। यः(१ याः) सम्मोहपराजयकपिशुनप्रोत्कीर्णवर्णस्फुर त्पूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे ॥२॥ आनन्दाय प्रसवतु सदा कुम्भिकुम्भोपमानं 'नामेयस्य स्फुरित चिकुरोत्तंसमंसद्वयं वः। श्रेयः सम्पत्कलशयुगलं शृङ्खलानद्धमुच्चै यन्मन्यन्ते विपुलमतयः पुण्यलक्ष्मी निधानम् ॥३॥ यत्कल्पद्रम-कामधेनु-मणिभिर्यच्छद्भिरिष्ट फलं श्रेयः किञ्चिदपार्जि तत्परिणतिः श्रीवस्तुपालः किल । यत् त्वेतस्य गतस्पृहानपि जनानिच्छाधिकं धिन्वतः पुण्यं तत्परिपाकमाकलयितुं सर्वज्ञ एवं प्रभुः ॥ ४ ॥ वर्धिष्णुपुण्यमयसन्ततिरद्भुतश्रीः श्रीवस्तुपालसचिवः स चिरायुरस्तु । इपतिना कृततीर्थयात्राः खेलन्ति यस्य शिशवोऽपि गृहाङ्गणेषु ॥५॥ ॥श्रीनागेन्द्रगच्छे विश्रीजयसेनसूरिशिष्यश्रीउदयप्रभसूरीणाम् ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy