SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गणितसारसज्जन्दः आयतवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्व्यासकृतिष्षणिता द्विसङ्गणायामकृतियुता (पदं) परिधिः । व्यास चतुर्भाग गुणश्चायतवृत्तस्य सूक्ष्मफलम् ॥ १३ ॥ अत्रोद्देशकः । आयतवृत्तायामः षट्त्रिंशङ्खादशास्य विष्कम्भः । कः परिधिः किं गणितं सूक्ष्मं विगणय्य मे कथय || १४ | 118 शङ्खाकारक्षेत्रस्य सूक्ष्मफलानयनसूत्रम् वदनानो व्यासो दशपदगुणितो भवेत्परिक्षेपः । मुखदलरहितव्यासार्ध वर्गमुखचरणकृतियोगः || १५ || दशपदगुणितः क्षेत्रे कम्बुनिभे सूक्ष्मफलमेतत् ॥ ६५ ॥ अत्रोद्देशकः । व्यासोऽष्टादश दण्डा मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं सूक्ष्मं तत्कम्बुकावृत्ते ॥ ६६६३ ॥ बहिश्चक्रवालवृत्तक्षेत्रस्य चान्तश्चक्रवालवृत्तक्षेत्रस्य च सूक्ष्मफलानय नसूत्रम्— निर्गमसहितो व्यासो दशपदनिर्गमगुणो बहिर्गणितम् । रहितोऽधिगमेनासावभ्यन्तरचक्रवालवृत्तस्य ॥ ६७ ॥ अत्रोद्देशकः । व्यासोऽष्टादश दण्डाः पुनर्बहिर्निर्गतास्त्रयो दण्डाः । सूक्ष्मगणितं वद त्वं बहिरन्तश्चक्रवालवृत्तस्य ॥ ६८ ॥ व्यासोऽष्टादश दण्डा अन्तः पुनरधिगताश्च चत्वारः । सूक्ष्मगणितं वद त्वं चाभ्यन्तरचक्रवालवृत्तस्य ॥ ६९ ॥ "
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy