SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३८ ___ अथ प्रथमतः सूत्रपूर्वार्धेन व्यवहारमोक्षमार्गमुत्तरार्धेन च निश्चयमाक्षमार्ग निरूपयति । व्याख्या। "सम्मइसणणाणं चरणं मोकखस्स कारणं जाणे ववहारा" सम्यग्दर्शनज्ञानचारित्रत्रयं मोक्षस्य कारणं हे शिष्य जानीहि व्यवहारनयात् । "णिञ्चयदो तत्तियमइओ णिो अप्पा" निश्चयतस्तत्रितयमयो निजात्मेति । तथा हि वीतरागसर्वज्ञप्रणीतषड्द्रव्यपञ्चास्तिकायसप्ततच्चनवपदार्थसम्यक्श्रद्धानज्ञानवताद्यनुष्ठानविकल्परूपो व्यवहारमोक्षमार्गः। निजनिरखनशुद्धात्मतत्वसम्यकश्रद्धानज्ञानानुचरणैकाग्यपरिणतिरूपो निश्चयमोक्षमार्गः । अथवा धातुपाषाणेऽग्निवत्साधको व्यवहारमोक्षमार्गः, सुवर्णस्थानीयनिर्विकारस्वोपलब्धिसाध्यरूपो निश्चयमोक्षमार्गः । एवं संक्षेपेण व्यवहारनिश्चयमोनमार्गलक्षणं ज्ञातव्यमिति । ३६। अथाभेदेन सम्यग्दर्शनज्ञानचारित्राणि स्वशुद्धात्मैव तेन कारणेन निश्चये. नात्मैव निश्चयमोक्षमार्ग इत्याख्याति । अथवा पूर्वोक्तमेव निश्चयमोक्षमार्ग प्रकारान्तरेण दृढयति । . · व्याख्या । "रयणत्तयं ण वट्टइ अप्पाणं मुयतु अण्णदवियम्हि" रत्नत्रयं न वर्त्तते स्वकीयशुद्धात्मानं मुक्वा अन्याचेतने द्रव्ये । “तमहा तत्तियमइओ होदि हु मोक्खस्स कारणं आदा" तस्मात्तत्रितयमयात्मैव निश्चयेन मोक्षस्य कारणं भवतीति जानीहि । अथ विस्तार:-रागादिविकल्पोपाधिरहितचिच्चमत्कारभावनोत्पन्नमधुररसास्वादसुखोऽहमिति । निश्चयरूपं सम्यग्दर्शनं तस्यैव सुखस्य समस्तविभावेभ्यः स्वसंवेदनज्ञानेन पृथक् परिच्छेदनं सम्यग्ज्ञानं, तथैव दृष्टश्रुतानुभूतभोगाकाङ क्षाप्रभृतिसमस्तापध्यानरूपमनोरथजनितसंकल्पविकल्पजालत्यागेन तत्रैव सुखेर तस्य सन्तुष्टस्य तृप्तस्येकाकारपरमसमरसीभावेन द्रवीभूतचित्तस्य पुनः पुनः स्थिरीकरणं सम्यकच रित्रकम् । इत्युक्तलक्षणं निश्चयरत्नत्रयं शुद्धात्मानं विहायान्यत्रघटपटादिबहिर्द्रव्ये न वर्तते यतस्ततः कारणादभेदेन येनानेकद्रव्यात्मकैकप्रपानकवत्तदेव सम्यग्दर्शनं, तदेव सम्यग्ज्ञानं, तदेव चारित्रं तदेव स्वात्मतत्त्वमित्युक्तलक्षणं निजशुद्धात्मानमेव मुक्तिकारणं जानीहि ॥ ४०॥ एवं प्रथमस्थले सूत्रद्वयेन निश्चयव्यवहारमोक्षमार्गस्वरूपं संक्षेपेण
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy