SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ५१ द्रव्यसंग्रहवृत्तिः । गाथा-३५ यद्वीपसमुद्रेषु व्यन्तरदेवानां पर्वताद्युपरिगता आवासाः, अधोभूभागगतानि भवनानि, तथैव द्वीपसमुद्रादिगतानि पुराणि च, परमागमोक्तभिन्नलक्षणानि । तथैव खरभागपङ्कभागस्थितप्रतरासंख्येयप्रमाणासंख्येयव्यन्तरदेवावासाः, तथैव द्वासप्ततिलक्षाधिककोटिसप्तप्रमितभवनवासिदेवसंवन्धिभवनान्यकृत्रिमजिनचैत्यालयसहितानि भवन्ति । एवमतिसंक्षेपेण तिर्यग्लोको व्याख्यातः ।। ___ अथ तिर्यग्लोकमध्यस्थितो मनुष्यलोको व्याख्यायते-तन्मध्यस्थितजम्बूद्वीपे सप्तक्षेत्राणि भण्यन्ते । दक्षिणदिग्विभागादारभ्य भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतसंज्ञानि सप्त क्षेत्राणि भवन्ति । क्षेत्राणि कोऽर्थ: ? वर्षा वंशा जनपदा इत्यर्थः । तेषां क्षेत्राणां विभागकारकाः षट कुलपर्वताः कथ्यन्तेदक्षिणदिग्भागमादीकृत्य हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिसंज्ञा भरतादिसप्रक्षेत्राणामन्तरेषु पूर्वापरायताः षट कुलपर्वता भवन्ति । पर्वता इति कोऽर्थः । वर्षधरपर्वताः सीमापर्वता इत्यर्थः । तेषां पर्वतानामुपरि क्रमेण हृदाः कथ्यन्ते । पद्ममहापद्मतिगिञ्छकशरिमहापुण्डरीकपुण्डरीकसंज्ञा अकृत्रिमा षट हृदा भवन्ति । हृदा इति कोऽर्थः? सरोवरायीत्यर्थः । तेभ्यः पद्मादिषडह्रदेभ्यः सकाशादागमकथितक्रमेण निर्गता याश्चतुर्दश नद्यस्ताः कथ्यन्ते । तथाहि -हिमवत्पर्वतस्थपद्मनाममहाहदाधकोशावगाहनोशार्धाधिकषटयोजनप्रमाणविस्तारपूर्वतोरणद्वारेण निर्गत्य तत्पर्वतस्यैवोपरि पूर्वदिग्विभागेन योजनशतपञ्चकं गच्छति ततो गङ्गाकूटसमीपे दक्षिणेन व्यावृत्य भूमिस्थकुण्डे पतति तस्माद् दक्षिणद्वारेण निर्गत्य भरतक्षेत्रमध्यमभागस्थितस्य दीर्घत्वेन पूर्वापरसमुद्रस्पर्शिनो विजयार्द्धस्य गुहाद्वारेण निर्गत्य तत आर्यखण्डार्द्धभागे पूर्वेण व्यावृत्य प्रथमावगाहापेक्षया दशगुणेन गव्यूतिपञ्चकावगाहेन तथैव प्रथमविष्कम्भापेक्षया दशगुणेन योजनांर्द्धसहितद्विषष्टियोजनप्रमाणविस्तारेण च पूर्वसमुद्रे प्रविष्टा गङ्गा । तथा गङ्गावसिन्धुरपि तस्मादेव हिमवत्पर्वतस्थपद्मदात्पर्वतस्यैवोपरि पश्चिमद्वारेण निर्गत्य पश्चाइक्षिणदिग्विभागेनागत्य विजयाईगुहाद्वारेण निर्गत्यार्यखण्डार्द्धभागे पश्चिमेन व्यावृत्य पश्चिमसमुद्रे प्रविष्टेति । एवं दक्षिणदिग्विभागसमागतगङ्गासिन्धुभ्यां पूर्वापरायतेन विजयार्द्धपर्वतेन च षटखण्डीकृतं भरतक्षेत्रम् ॥ अथ महाहिमवत्पर्वतस्थमहापद्महदाइक्षिणदिग्विभागेन हैमवतक्षेत्रमध्ये
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy