SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा - १ तत्राप्यादौ प्रथमाधिकारे चतुर्दशगाथापर्यन्तं जीवद्रव्यव्याख्यानम् । ततः - परं "अज्जीव पुण प्रो" इत्यादिगाथाष्टकपर्यन्तमजीवद्रव्यकथनम् । ततः - पर “एवं छब्भेयमिदं” एवं सूत्रपञ्चकपर्यन्तं पञ्चास्तिकायविवरणम् । इति प्रत्रमाधिकारमध्ये ऽन्तराधिकारत्रयमवबोद्धव्यम् ।। 1 तत्रापि चतुर्दशगाथासु मध्ये नमस्कार मुख्यत्वेन प्रथमगाथा | जीवादिनवाऽधिकारसूचनरूपेण "जीवो उवओोगमओ" इत्यादिद्वितीयसूत्रगाथा । तदनन्तरं नवाधिकारविवरणरूपेण द्वादशसूत्राणि भवन्ति । तत्राप्यादा जीवसिद्धार्थ "तिकाले चदुपाणा" इतिप्रभृतिसूत्रमेकम्, तदनन्तरं ज्ञानदर्शनोपयोगद्वयकथनार्थ “उवओोगो दुवियप्पो" इत्यादिगाथात्रयम्, ततः परममूर्त्त - त्त्वकथनेन “ वण्ण रस पंच " इत्यादिसूत्रमेकम्, ततोऽपि कर्मकर्तृत्वप्रतिपादनरूपेण ‘“पुग्गलकम्मादीणं” इतिप्रभृतिसूत्रमेकम्, तदनन्तरं भोक्तृत्वनिरूपणार्थ "ववहारा सुहदुक्खं " इत्यादिसूत्रमेकम्, ततः परं स्वदेहप्रमितिसिद्धार्थ “अणुगुरुदेहपमाणो” इतिप्रभृतिसूत्रमेकम्, ततोऽपि संसारिजीवस्वरूपकथनेन “पुढविजलतेउवाऊ” इत्यादिगाथात्रयम्, तदनन्तरं "णिकम्मा अट्ठगुणा " इतिप्रभृतिगाथापूर्वार्धेन सिद्धस्वरूपकथनम्, उत्तरार्धेन पुनरूद्र्ध्वगतिस्वभावः । इति नमस्कारादिचतु' दशगाधामेलापकेन प्रथमाधिकारे समुदायपातनिका । २ अथेदानों गाथापूर्वार्द्धन सम्बन्धाऽभिधेयप्रयोजनानि कथयाम्युत्तरार्द्धेन च मङ्गलार्थमिष्टदेवतानमस्कारं करोमीत्यभिप्रायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति । व्याख्या- 'वंदे' इत्यादिक्रियाकारकसम्बन्धेन पदखण्डनारूपेण व्याख्यानं क्रियते । 'वंदे' एकदेशशुद्धनिश्चयनयेन स्वशुद्धात्माराधनलक्षणभावस्तवनेन, असद्भूतव्यवहारनयेन तत्प्रतिपादकवचनरूपद्रव्यस्तवनेन च 'वन्दे' नमस्करोमि । परमशुद्धनिश्चयनयेन पुनर्वन्धवन्दकभावो नास्ति । स कः कर्त्ता, अहं नेमिचन्द्रसिद्धान्तिदेवः । कथं वन्दे ? " सब्बदा" सर्वकालम् । केन ? “सिरसा” उत्तमाङ्गेन । “तं" कर्म्मतापन्नं वीतरागसर्वज्ञम् । तं किंविशिष्टम् ? 'देविंदविदवंद' मोक्षपदाभिलाषिदेवेन्द्रादिवन्द्यम्, “भवणालयचालीसा विंतरदेवाण होंति वत्तीसा । कप्पामरचउवीसा चंदो सूरो से तिर || १ |” इति गाथाकथितलक्षणेन्द्राणां शतेन वन्दितं देवेन्द्रवृन्दवन्द्यम् । “जेण” येन 1
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy