SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जिनमण्डननिवद्धम् __ अथवाऽस्तु सलक्षणो हेतुः परं तल्लक्षणमपि सलक्षणं [विलक्षणं] वा स्यात् ? विलक्षणत्वक्षितिः क्षितिपतिनापि न रक्षितुं क्षमीमूयते । सलक्षणत्वे तस्यापि लक्षणं प्ररूपणीयम् । एवमनवस्थादौस्थ्यं तदवस्थमेव । किञ्च, तल्लक्षणं सकलस्वलक्ष्यव्यक्तिभि. सह निश्चितव्याप्तिक कथ्यते किं वाऽनिश्चितव्याप्तिकामति गतिद्वयम् । तत्र न तावदनिश्चितव्याप्तिकम् तस्यातिव्यापककलङ्कपकिलत्वेन लक्षणत्वाभावात् उन्मत्तवाक्यवत् । अथ निश्चितव्याप्तिकम् तर्हि किं सकलस्वलस्यव्यक्तिभि. सह लक्षणस्य व्याप्तिनिश्चय[.] प्रमाणात् प्रमाणकोटिमारोपणीयोsनणीयोधिषणैरप्रमाणाद्वा ? न तावदप्रमाणादप्रमाणस्य निश्चायकत्वाघटनात् । यदि पुनरप्रमाणमपि निश्चायकमित्यनुताष्ठीयते शिष्टप्रशिष्टैस्तदा समग्रप्रमाणान्वेषणं निष्प्रमाणकोटिमार्टीकिष्ट स्पष्टमेवेष्टसाधकम् अप्रमाणादपि निश्चयादिकार्यपरम्पराभ्युपगमात् । अथ प्रमाणाद् व्याप्तिनिश्चय इत्युररीचर्करांचक्रे तार्किकचक्रचक्रवर्तिना तर्हि तत् कि प्रमाण सलक्षणं विलक्षणं वा । विलक्षणत्वे पूर्ववद् दोषमपीकालुष्यपोषः । सलक्षणत्वे तु तल्लक्षण निश्चितव्याप्तिकं लक्ष्यव्यक्तिभि सहानिश्चितव्याप्तिक वा ? अनिश्चितत्वे पूर्वलक्षणेन किमपराद्ध तव येन तन्निराकुरुषे । निश्चितत्वे तु निश्रयोऽपि किं प्रमाणादप्रमाणाद् वा 2 प्रमाणमपि सलक्षणमलक्षणं वेत्याद्यावर्तनेन सतताऽनवस्थास्थिरदौस्थ्यनिस्सीममहिमा न हि मानशालिना कल्पान्तेऽपि व्यपासितुं शाशक्यते । अथास्तां प्रशस्तान्तर्वाणिमान्यात् प्रमाणाल्लक्षणस्य व्याप्तिनिश्चयः सचेतसाम् । परं कि तत् प्रमाणम् प्रामाणिकंमन्यैः प्रमाणीकरिष्यते-किं प्रत्यक्षमाहोस्विदनुमानं वा ? प्रत्यक्षमपि किं भवदीयमन्यदीयं वा समासादयत्युदयपदवीम् । भवदीयमध्यक्ष भवदीयसौधमन्यसञ्चारिसहचारिण्याः पुर. सञ्चार्यमाणं चारिमाणमाचनीस्कद्यते । किञ्च, एतद्धेतुलक्षणं सकलकलापव्यापिनीसमग्रस्वलन्यव्यक्तीाप्नोतीति मवदीयमध्यभ निश्चिनोतीति कस्य मनस्विनो मनसि विश्वासाय जाजायते । एवं चावापन्नोपनता भवतः सर्वज्ञतापत्ति । तथा च कुचर्चचर्वणं नीरसत्रस्तरसभक्षणप्रायमनाश्रयणीयमेव भवेत् । तन्न भवदीयप्रत्यक्षाल्लक्षणव्याप्तिनिश्चय । अन्यदीयमपि प्रत्यक्ष लक्षणव्याप्तिनिश्शायकं भवता ज्ञातमज्ञातं वा भवेत् । अज्ञातत्वे भवतो वराकस्य किमायातम् । न हि महिमसत्तमसोमदत्तगृहेऽनणुमणिगणश्रेणिसम्भवे सम्भवेद् भवतोऽमुद्रदारिद्रमुद्राद्रावण द्रावणम् । अथ ज्ञातमिति मतिस्तर्हि तज्ञातृत्वमपि ज्ञानादन्यतो वा ? ज्ञानमपि किं भवदीय परकीयं वा ? उभयमपि किं प्रत्यक्षरूपमनुमानरूप वा ? प्रत्यक्षानुमाने अपि निश्चितप्रामाण्ये उतान्यथा इत्याद्यावर्तनेन न क्वापि विकल्पकल्पना कल्पान्तेऽपि विश्राम्यति । अथ भवतु वा यस्य कस्याप्यध्यक्षवृत्तिमान्य
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy