SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जिनमण्डननिवद्धम् स्येवानभीप्सितसाध्यधर्मविशेषणत्वदृपणापत्ति पक्षेऽनिवारणीया स्यात् । अथाभीमितमपि किं भवत. सर्वेषां वेति द्वयी गतिः । न तत्राग्रेन्वरी प्राग्रहरा गतिः, सर्वपामभीप्सितत्वे विप्रतिपत्तेरभावेन साभ्योपन्यासस्य मुधा प्रयासप्राप्तेः । अथ भवत एवेति प्राग्रहराऽतना गतिर्मतिमता प्रतायते । तत्रापि किं तद विशेषरूप स्यादुताहो सामान्यरूपं वा ? न तावद् विशेषरूपम् , तस्य हि नियतेकथमिव्यक्तिमात्रनिष्टत्वेनान्यत्राननुयायित्वात् । तथात्वे च निदर्शनस्य साध्यविकलता कलावता कथमुन्मूलनीया ? अन्वयव्याप्तिरपि साध्यसाधनयो. सपक्षसद्भाववलेन जल्प्यमाना प्रला पमात्रमेवात्र । अथ सामान्यरूपम् तत्रापि कि तन्नित्यमनित्यं वा स्यात् ? न तावन्नित्यं तस्य साध्यत्वायोगात् । पूर्वमसाध्यमधुना तु साध्यमिति स्वभावमेदापन्याऽनित्यत्वप्राप्ते । भवतु वा नित्यं परम् अर्थक्रियासंमुख वा तद्विमुख वा ? अर्थक्रियासांमुख्यं तस्य क्रमेण योगपद्येन वा ? इत्याद्यनेकानन्यविकल्पकल्पनाया अपरिसमाप्तेर्न साध्यसिद्धिर्युगान्तेऽपि। अथैतद्भयात् तत् साध्यमनित्यमगीकुर्वीथाः । तत्रापि किं तत् क्षणिकं वा कियकालावस्थायि वा स्यात् ? न तावत क्षणिकम् , तस्य हि तथात्वे द्वितीयक्षणमावी हेतुः किं साधयेत् । न हि पूर्वमेव या शेपत्य पश्चाच्चिकित्साप्रस्तावः; साध्यस्य तु क्षणविनाशित्वे हेतोराश्रयासिद्धिवन्धीकलकोऽपि केन पराक्रियते ? ___ अथैतदोषदोषाचरप्रचारत्रस्त कियत्कालावस्थायि साध्यं मन्येथास्तत्रापि किं तत् प्रतीतम्प्रतीत वा बोभूयेत ? प्रतीतमपि किं [सर्वापेक्षया] भवदपेक्षया वेति पक्षयी। सर्वापेक्षयेति पक्षे कभीक्रियमाणे समाप्तिसौधमध्यमध्यासीन एव विवाददुर्धरकेसरी यत सर्वप्रतीते वस्तुनि 'आपो द्रवा' इत्यादिवद् विवादायोगात । तस्यापि साधने न मन्दरपुरन्दरादयोऽपि साध्यत्वमासादयेयु । प्रतीतसाध्यधर्मविशेषणत्वपक्षदूपणापत्तेरनिवार्यत्वात् । न हि कोऽपि मनस्वी [सर्वस्वीकृतप्रतीतसाध्यसाधनाय साधनोपन्यासक्लेशमाशेश्रीयते । अथ भवदपेक्षयेति पक्षोऽपि दक्षोदितनोदितो न स्थेमानमधिगच्छति । तथाहि-तत् साध्यं भवत प्रतीतं प्रमाणतोऽन्यथा वा ? न तावदन्यथा, अतिप्रसक्तिपराहतत्वेन युक्तिरिक्तत्वात् । अथ प्रमाणतस्तत्पीतिरिति प्रणिगयेत चातुर्वेद्यहृद्येन । तत्रापि किं तत् प्रमाणं सामान्यात्मकं विशेपात्मक वा ? सामान्यात्मकमपि कि ज्ञान वाऽन्यद् वेति विकल्पयुगली मञ्जुलमरालयुगलीव विमलीभावमाविभ्रती प्रतीतिपथमवतेतीर्यते । अन्यदपि किं सन्निको वा कारकसाकल्य वा । द्वयोरप्येतयोरज्ञानि(न)त्वेन स्वपरानिश्चायक
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy