SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ परब्रह्मोत्थापनस्थलम् । त्वात् । न हि ब्रह्मणो घटपटादिरूपत्वेन विवों युक्तः, विजातीयेन सह विवर्तायोगात् । इन्द्रियगम्येषु तथादर्शनात् । न हि मृद् अम्भोरूपेण विवर्तते तद्वा तद्रूपेण । सकलसिद्धमेतत् । अस्यान्यथात्वे प्रतीतिबाधा । घटपटादिषु च मृदन्वय एव दृश्यते, न चैतन्यान्वयः । अथ तत्र सत्तान्वयोऽस्ति । एवं न हि यत्र सत्ता तत्र प्रपञ्चान्वयोऽप्यस्ति । तथा च सति प्रपञ्चरूपमेव स्याद् विश्वम् । किञ्च, सत्तापि घटपटादीन् विना न भवति । न हि गुणिनं विना गुणान् कोऽपि दृष्टपूर्वी । तस्मादेतदप्यनुमानं भवदिष्टार्थप्रापणप्रवणं न भवति । किञ्च, ब्रह्मणः साधकं किं प्रमाणम् ? आगम इति चेत् तर्हि स तस्माद्भिन्नो वा स्यादभिन्नो वा ? भिन्नत्वेऽद्वैतवादहानिः । अभिन्नत्वे साध्यसाधकभावानुपपत्तिः । किञ्च, आगमः अर्थरूपो वा स्यात् ज्ञानरूपो वा ? आद्यपक्षे प्रपञ्चसिद्धिः । द्वितीयपक्षे भिन्नत्वे ज्ञानद्वैतसिद्धिः । अभिन्नत्वे ब्रह्मैव केवलम् न तत्साधकागमो नाम प्रमाणं किञ्चित् । अथ, आगमः अर्थरूपो ब्रह्मसाधक' अर्थोऽपि ज्ञानरूप एव । एतदपि विचार्यमाणमसङ्गतमेव । अर्थस्य ज्ञानरूपत्वासिद्धे. तथाप्रतिभासाभावात् । तथाप्रतिभासाभावेऽपि तस्य तथारूपत्वं चेत् साधयिष्यते तर्हि सर्व सर्वात्मना साध्यं साध्यव्यवस्थाया युष्मदायत्तीभूतत्वात् । अथ ब्रह्मैवाऽऽगमरूप स्वसाधकं तर्हि आगम' पदवाक्यरूपो वाच्यः, ब्रह्म च अवाच्यम् तयोरैक्य कथं स्यात् १ एकत्वे वा ब्रह्मैव, नागमप्रमाणं तस्माद् भिन्न किञ्चित् । अथ प्रदीप स्वसाधक. एवं ब्रह्माऽपीति चेत् तर्हि आगमो ब्रह्मसाधक इति बालप्रलपितं जातम् । किञ्च, प्रदीपः स्वप्रकाशको जनानाम्, परब्रह्म च कस्य स्वप्रकाशकं इति वाच्यम् ? जन्तूनामिति चेत् तर्हि परब्रह्मणा जन्तूनां स्वरूप ज्ञाप्यते इति तात्त्विकत्रितयसिद्धिः । एवं सति 'एकमेवाद्वितीयं ब्रह्म" इति वचनमात्रम्, ज्ञाप्यज्ञापकाद्यङ्गीकारात् । किञ्च, सर्वदेहेषु एकस्यैव निर्विशेषस्य परब्रह्मण]स्तात्त्विकत्वे एकस्य मुक्तौ सर्वेषा मुक्तिः, एकस्य बन्धे सर्वेषां बन्धः, एकस्य पीडायां सर्वस्य पीडा, एकस्य सौख्ये सर्वस्य सौख्यमेवाभियुज्यते । अथैकस्मिन्नपि देहाधिष्ठातरि यथैकस्य पादस्य पीडाया नापरस्य पादस्य पीडा एवं समानेऽपि ब्रह्मणि यथादृष्टमेव पीडाद्यङ्गीकार्यम् , एतदप्यसङ्गतम् । पादपीडायां तस्यैव देहाधिष्ठातुरेकस्यैव पीडाद्यगीकारात् सौख्येऽपि तस्यैव सौख्यास्वादात् न तु पादादेः । किञ्च, वय देहाधिष्ठातारं सांशम् एवाङ्गीकुर्महे । तथा च कापि पीडा कापि सौख्य इत्यादि युज्यत एव । भवद्भिस्तु परमब्रह्म निरंशमेवा
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy