SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् कृतबुद्ध्युत्पादाभावात् । किञ्च, बुद्धिमत्कारणाभावोऽत्रानुपलव्धितो भवता प्रसाध्यते । एतच्चायुक्त दृश्यानुपलब्धेरेवाभावसाधकत्वोपपत्ते न चेयमत्रे र्न सम्भवति ( चेयमत्र सम्भवति ) । जगत्कर्तुरदृश्यत्वात् । अनुपलब्धस्य चाभावसाध्यत्वे पिशाचादेरपि तत्प्रसक्तिः स्यादिति । ४४ अत्र प्रतिविधीयते । तत्र यत्तावत् क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वसाधनमुक्तं तत् किं सावयवत्वम् १ प्रागसतः स्वकारणसत्तासमवायः २ कृतमिति प्रत्ययविषयत्वम् ३ विकारित्वं ४ वा स्यात् यदि सावयवत्वं तदेतदपि किमवयवेषु वर्तमानत्वं १ अवयवैरारभ्यमाणत्वं २ प्रदेशवत्त्वं ३ सावयवमिति बुद्धिविषयत्वं वा ४ १ तत्राद्ये पक्षे अवयवसामान्येनानैकान्तिकोऽथं हेतुस्तद्वयवयवेषु वर्तमानमपि निरवयवमकार्य च प्रोच्यते । द्वितीयपक्षे तु साध्यसमो हेतुर्यथैव हि क्षित्यादेः कार्यत्वं साध्यमेवं पर [ मा] ण्वाद्यवयवारभ्यत्वमपि । तृतीयोऽप्याकाशेनानैकान्तिकस्तस्य प्रदेशवत्त्वेऽप्यकार्यत्वात् । प्रसाधयिष्यते चाग्रतोऽस्य प्रदेशवत्त्वम् । चतुर्थकक्षायामपि तेनैवानेकान्तो न चास्य निरवयवत्वं व्यापित्वविरोधात् परमाणुवत् ॥१॥ नापि प्रागसतः स्वकारणसत्तासमवाय. कार्यत्वं तस्य नित्यत्वेन तल्लक्षणायोगात् । तल्लक्षणत्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात् कस्य बुद्धिमद्धेतुकत्वं साध्यते । किञ्च, योगिनामशेषकर्मक्षये पक्षत पातिन्यप्रवृत्तत्वेन भागासिद्धोऽयं हेतुस्तत्पक्ष(क्षे) तस्य प्रध्वसाभावरूपत्वेन सत्तास्वकारणसमवाययोरभावात् ॥२॥ कृतमिति प्रत्ययविषयत्वमपि न कार्यत्वं खननोत्सेचनादिना कृतमाकाशमित्यकार्येऽप्याकाशे वर्तमानत्वेनानैकान्तिकत्वात् ||३|| विकारित्वस्यापि कार्यत्वे महेश्वरस्यापि कार्यत्वानुषङ्गः । सतो वस्तुनोऽन्यथाभावो हि विकारित्वम्, तच्चेश्वरस्याप्यस्तीत्यस्यापरबुद्धिमद्धेतुकत्वप्रसङ्गादनवस्था स्यात् । अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटमिति कार्यस्वरूपस्य विचार्यमाणस्यानुपपद्यमानत्वादसिद्ध. कार्यत्वादित्ययं हेतु । किञ्च, कादाचित्कं वस्तु लोके कार्यत्वेन प्रसिद्धं जगतस्तु महेश्वरवत् सदा सत्त्वात् कथं कार्यत्वम् । तदन्तर्गततरुतृणादीना कार्यत्वात् तस्यापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्यादीनां परमाण्वाद्यन्तर्गताना पाकजरूपादीना कार्यत्वात् महेश्वरादेरपि कार्यत्वानुषङ्गः । तथा चास्याप्यपबुद्धिमद्धेतुककल्पनायामनवस्थाऽपसिद्धान्तश्चानुषज्येते ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy