SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता तस्य तदुपकारित्वात् । यच्च यत्रोपकारि न तत् तस्मिन्नुदासीनम् । यथा तन्त्वादयः पटे | चारित्रोपकारि च चीवरम्, तथ'हि-सयमात्मकं चारित्रम् । न त्वत ( त्वेत) स्य तत्परिहारेण शुद्धिरस्ति । आगमश्च ४२ किं संजमोवयारं करेइ वत्थाइ जति मई सुणसु । सीअत्ताणं ताणं जलणतणगताण सत्ताणं ॥ तह निसि चाउक्कालं सझायज्झाणसाहणमिसीणं । महिमहियावासोसारयातिर क्खानिमित्तं च ॥ [विशेषा० भा० ३०५८-५९ ] जो वि दुवत्थ-तिवत्थो एंगण अचेलगो वि संथर । १ न हु ते हीलति परं सव्वे विअ ते जिणाणाए || इत्यत स्थितमेतत् चारित्रनिमित्तं चीवरमिति । नासिद्धता हेतो' । विरुद्धानैकान्तिकते चेतत्का (च तर्का) नुसारत परिहर्तव्ये । ततश्च ‘निर्ग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरुक्तानि । सम्यग्व्रतानि यस्मान्नैर्ग्रन्थ्यमतः प्रशंसन्ति ॥ रागाद्यपचयहेतुर्नैर्ग्रन्ध्यं स्वप्रवृत्तितस्तेषाम् । तद्वृत्तिरतोवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥' इत्यादि दुर्मतिस्पन्दितमकर्णनीयम् । गरीयस्त्वा[त्] सचेलस्य धर्मस्यान्यैस्तथागतै । शिष्यस्य प्रत्ययाच्चैवं वस्त्रं दध्रेत लज्जया ॥ ॥ इति चीवरस्थापकस्थलम् ॥ ४. ईश्वरोत्थापकस्थलम् || ॐ || ईश्वरवादिन ईश्वरस्य जगत्कर्तृत्वस्थापनार्थमित्थं प्रमाणयन्ति । क्षित्यादिकं बुद्धिमत्कर्तृकं कार्यत्वाद घटादिवदिति । न चायमसिद्धो हेतु' । क्षित्यादेः सावयवत्वेन कार्यत्वप्रसिद्धे । तथाहि उर्वीपर्वततर्वादिकं सर्वं कार्य सावयवत्वाद् १ तुलनार्थं द्रष्टव्यम् - बृहत्कल्पभाष्यगाथा ३९८४, निशीयभाष्यगाथा ५८०७ ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy