SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् नस्तदा श्रुतमपि केपाश्चिदहकारहेतुत्वेन कपायकारणमिति तदपि नोपादेयं स्यात् । अथ विवेकिनां न तदहड्कृतिहेतुः । 'प्रथमं ज्ञान ततो दया' इति नीतितो धर्मोपकारि चेति तदुपादानम्, चीवरेऽपि समानमेतत् । अथ चीवरस्य धर्मानुपकारितयाऽतुल्यता । ननु कुन एतदवसितम् । किमचीवरास्तीर्थकृत इति झुंतस्त जिनकल्पाऽऽकर्णनात्, 'जिताचेलपरीपहो मुनि' इति वचनाद्वा । न तावदाद्यो विकल्प. । तीर्थकृता हि अचीवरत्व कदाचित् सर्वदा वा । क(का)दाचिके को वा किमाह । कदाचिदस्माकमप्यभिमतत्वात् । अथ सर्वदा, तन्न 'सब्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं [आ०२०६] इति वचनात् । तत्र 'एक(ग)दोसेण' त्ति पाठः । सर्वेऽपि ससार]दोपेण एकेन निर्गता इति कृत्वा । नन्वेवमनवस्था । सर्वत्र सर्वैरपि स्वेच्छारचितपाठानां सुकरत्वात् । किञ्च, तीर्थकृतामचीवरत्वे तेषामेव तद् धर्मोपकारीति निश्चयोऽस्तु नापरेपाम् । न हि यदेव तेषा धर्मोपकारि तदेवेतरेषामपि । अन्यथा यथा न ते परोपदेशत. प्रवर्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां च न प्रयच्छन्ति तथान्यैरपि विधेयमिति मूलोच्छेद एव तीर्थस्य । उक्तं च ण परोवएसविसया न उ छउमत्था परोवएस पि । दिति न य सीसवग्गं दिक्खंति जिणा जहा सब्वे ॥ तह सेसेहि वि सव्वं कज्जं जइ तेहि सव्वसाहम्मं । एवं च कओ तित्थं न चेदचेलो त्ति को गाहो ? ॥ विशेषा०भा०३०७१-७२] अथ जिनकल्पाऽऽकर्णनात् । तत्र हि न किञ्चिदुपग(क)रणमिति चीवरस्याप्यभावस्तथा च तस्य न धर्मोपकारिता । ननु जिनकल्पिकानामुपकरणाभाव आगमत प्रवाढतो वा । न द्वितीयो, न हि 'वसति किल वृक्षे रक्ष' इत्यादिनिर्मूलप्रवादानां प्रमाणता । नाप्यागमस्तेषामपि शक्त्यपेक्षयोपकरणप्रतिपादनात् । तदुक्तं जिणकप्पिआदयो पुण सोवधओ सव्वकालमेगंतो। उवगरणमाणमेसिं पुरिसाविक्खाय बहुभेअं ॥ [विशेषा०भा० ३०६७] अथवा अस्तु जिनकल्पिकानामुपकरणाभाव(वो) धृतिगक्तिसंहननश्रुतातिशययुक्तानामेव तप्रतिपत्तिः, अथ रथ्यापुरुषाणामपि । यद्याद्यो विकल्पस्तहिं एवंविधा सम्प्रत्यपि सन्ति न वा । सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन् । अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्वेन निश्चीयन्ते । अथ न सन्ति तहि तादृशामेव जिनकल्पप्रत्तिपत्ति रिति वृथैव - मण-परमोहि-पुलाए आहारग-खवग-उवसमे कप्पे । संजमतिय-केवलि-सिज्झणा य जंबुम्मि वोच्छिन्ना || [विशेषा०भा०३०७६]
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy