SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृका ॥वादचतुष्कः॥ १. अग्निशीतत्वस्थापनावादः - ॐ नमः । शीतो वह्निर्दाहकत्वात् । यद् यद् दाहकं तत्तच्छीतम् [ हिमवत् ] । दाहकश्च वह्निस्तस्मात् गीत एव । अथ सकलप्रज्ञालप्रवालचक्रवालावचूलैविद्यते वादि शार्दूलैर्यथा—प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा । यतः समस्तैरपि जनैर्वह्रावुष्णत्वमेवोपलभ्यते । न शीतत्वलेशोऽपि । तन्न वाच्यम् यतः हेमन्तसमयवासरमुखव्यज्यमानाद्रीकृततालवृन्तप्रान्तप्रोच्छलत्शीतशीकरासारशिशिरे वैश्वानरे उष्णत्वोपलब्धिन्तैिव यथा विरहिणां सकलजननेत्रपात्रकलेह्यमानमहसि चन्द्रमसि उष्णत्वप्रतीतिः। ____ अथैवमुद्दण्डपुण्डरीकपाण्डुरनिजयश प्रसरदुग्धमकराकरान्तःपरिस्फुरत्पाण्डित्यादिगुणडिण्डीरपिण्डीकृतब्रह्माण्डमाण्डैर्वम्भण्यते विद्वत्प्रकाण्डै यथा शीतद्युतावुष्णत्वप्रतीतेर्धान्तत्वं भवतु बहुभिस्तच्छीतत्वोपलम्भात् । वर्तेस्तूष्णत्वं सर्वैरपि प्रतीयते न केनापि गीतत्वम् । तस्मात् प्रत्यक्षविरुद्धः । इदमपि विचार्यमाणं न स्थेमानमाप्नोति । यतः निर्दोषाणां कुशीचाटनफालग्रहणादिदिव्य कुर्वतामनुस्मृतमन्त्राणां च हुताशने शीतत्वप्रतीति समस्त्येव । अथैवं निबिडजडिमवननिकुञ्जोज्जा(जोद्भा) सनकुञ्जरै. प्रजल्प्यते यथा - कुशीचाटनफालग्रहणादिदिव्यं कुर्वतां देवतानुभावात् कृशानोः गीतत्वोपलम्भः संभवति न पुनः स्वयं शीतः । यदि पुनः स्वयं गीत' स्यात् तत्कथं दोषवतां जिहास्फोटकदंष्ट्रिकादाहादीन्युपलभ्येरन् । तस्मादुष्ण एव [1] तदप्याशामात्रमेव । यतः यद्दोषवतां स्फोटकादिकमुपलभ्यते तदपुण्यानुभावेन तदीयदोषाविष्करणाय देवतादिवशात् सजायते न पुनर्वह्वेरौष्ण्यात् । ___ अथानवद्यविद्याविबुधव्रतश्रेणिसंप्रीणन्प्रफुल्लन्मल्लिकाभिः समुल्लप्यते विद्वन्मतल्लिकाभिः—यथा नाम दोषवतां स्फोटादिकं देवतादिभिस्तदीयदोषाविष्करणाय । परं यदि स्वाभाविकं वढेरुष्णत्वं नास्ति तत्कथं सर्वेषामपि जनानां वह्निससर्गे स्फोटकादिकमुत्पद्यमानं दरीदृश्यत इति । तस्मात् स्वभावेनाप्युष्ण एव श्रयितव्यः । तदेतदपि वावद्यमानं न विदुषामानन्दसम्पदं सम्पादयति । यत नोष्णत्वं स्फोटकोत्पत्तिकारणम्, भिल्लातकराजिकादिसम्पर्केऽपि स्फोटकोत्पत्त्युपलम्भात् । न च तेषामुण्णत्वमस्ति । तन्न स्फोटकोत्पादकत्वेन वढेरुष्णत्व कल्पनीयमिति । । अथैवं सार्वभौमयशसः प्रजल्पन्ति सुमनस.-यथा बहुभिर्वह्रुष्णत्वोपलभ्यमानत्वा दुष्णत्वमेव तात्त्विकम्, शीतत्वोपलम्भो भ्रान्त एवेति । तदेतदपि न सुधीमतो धिनोति ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy