SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकः महत्त्वपरिमाणप्रतीतिविषयत्वात् । यथा वढरामलकादि । न चायमसिद्धो हेतुः । अल्पः शब्दो महान् शब्द इति प्रतीतेर्विद्यमानत्वात् । इति सिद्धं शब्दस्य गुणक्रियावत्त्वम् । तथा पौद्गलिकः शब्दो गुणक्रियावत्त्वे सत्यस्मदादिकस्येन्द्रियप्रत्यक्षत्वात् । घटादिवत् ॥७॥ न गगनगुणः शब्दोऽस्मदादिप्रत्यक्षत्वाद् रूपादिवत् ॥८॥ ॥ इति पौद्गलिकत्वसाधकानि शब्दस्य ॥ ७. प्रमाणवादः प्रमाणं द्विधा । प्रत्यक्षपरोक्षभेदात् । अत्र केचित् प्राहुः प्रत्यक्ष ज्येष्ठं प्रमाणं स्वार्थनिर्णीतावन्यानपेक्षत्वात् । एव तर्हि अनुमानमपि ज्येष्ठमस्तु । तत एव । न हि तदपि तस्यामन्यापेक्षम् । स्वोत्पत्तौ तदन्यापेक्षमिति चेन्न प्रत्यक्षमपि स्वोत्पत्तावन्यापेक्षमेव । तत् स्वनिमित्तमक्षादिकं तत्रापेक्षते न पुनः प्रमाणमन्यदिति चेत्तत्रनुमानमपि तथैवास्तु । न हि तदपि लिङ्गहेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्षते । यत्त लिङ्गस्वरूपग्राहि प्रमाणम् तदनुमानोत्पत्तिनिमित्तमेव न स्यात् । लिगपरिच्छित्तावेव चरितार्थत्वात् । अथ प्रत्यक्षं ज्येष्ठं विशदावभासित्वात् । एवं चेत् तर्हि द्विचन्द्राद्यवभासिसवेदनस्यापि ज्येष्ठत्वापत्तिः ॥ अथ चार्वाकः प्राह-नानुमानं प्रमाण गौणत्वात् । पक्षधर्मत्वं हि तज्जनकस्य हेतोः स्वरूपम् । पक्षश्च धर्मधर्मिसमुदायात्मा । तदनिश्चये कथं तद्धर्मतया हेतोनिश्चयस्तन्निश्चये वाऽनुमानवैफल्यम् । ततोऽवश्य पक्षधर्मव्यवहारसिद्धये धर्मधर्मिसमुदायरूढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः । तस्मादित्थं पक्षस्य गौणत्वम् । तद्वौणत्वे च हेतोरपि गौणता । तद्धमत्वलक्षणत्वात्तस्य । तस्माद् गौणकारणजन्यत्वेन गौणमनुमानम् । गौणत्वाच्च न प्रमाणम् । अपि चानुमानस्य धर्मी धर्मस्तत्समुदायो वा साध्यः स्यात् । तत्र यद्याद्यः सोऽयुक्तः । धर्मिण प्रसिद्धत्वेन साधनवैफल्यप्रसक्ते. हेतोरनन्वयानुषणाच्च । न खलु यत्र यत्र धूमस्तत्र तत्र पर्वतनितम्ब इत्यन्वय सम्भवति । द्वितीयपक्षेऽपि धर्म सामान्यरूपो विशेषरूपो वा साध्यः स्यात् । तत्राये सिद्धसाधनम् । न च तन्मात्रप्रतीतौ किञ्चित् फलमुपलभामहे । न हि वह्नित्वं दाहपाकादावुपयुज्यमानं प्रतीतम् । विशेषरूपस्य च धर्मस्य साध्यत्वेऽनन्वयहेतुर्भवेत् । न ह्यत्रत्येदानीतनेन खदिरादिस्वभावेन वह्निना वह्निमान् पर्वतनितम्ब इत्यत्र विशेषेणान्वय सङ्गच्छते । महानसादौ दृष्टान्ते तथाविधसाध्येन सम धूमस्य व्याप्त्यप्रतीते. । तन्न धर्मोऽपि साध्यः, नापि तत्समुदायस्तस्याप्यन्यत्राऽनन्वयात् । न हि यत्र यत्र धूमस्तत्र तत्र [अग्निमत्] पर्वतनितम्ब इत्यन्वय' प्रतीतिधुरामधिरोहति । मूलाऽनुमानविषयापहारिणोऽनुमानविरोधस्य विशेषविरुद्धापराभिधानस्येष्टविधात कृतः सन्दे
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy