SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अज्ञातकतका न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाऽऽभाति सर्व शब्दे प्रतिष्ठितम् ॥१॥ वाग्रूपता चेदुत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाश प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥ वाक्यप० १.१२३-२४] यथा विशुद्धमाकाश तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरिव मन्यते ॥३॥ तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥४॥ (बृहदा० भा० वा० ३.५.४३-४४] निवद्धैकरूपत्वाद्दीचीवुवुदफेनवत् । वाचः सारमपेक्षन्ते शब्दब्रह्मोदकाद्वयम् ॥५॥ ॥ इति शब्दब्रह्मवादिमतसिद्धिः ॥ शब्दार्थयोस्तादात्म्यं न भवति । विभिन्नेन्द्रियग्राह्यत्वात् । यथा रूप रसयोः ॥१॥ न चेदमसिद्धम् । शब्दाकाररहितस्य घटादेर्लोचनविज्ञाने प्रतिभासनात् , तद्रहितस्य तु गब्दस्य श्रोत्रज्ञाने । तथाभूतयोरप्यनयोस्तादात्म्याभ्युपगमेऽतिप्रसङ्गः । तथा नास्ति शब्दार्थयोस्तादात्म्यम् । विभिन्नदेश-कालाकारत्वात् । यथा घटपटयोः । न च विभिन्नदेशत्वमत्रासिद्धम् । प्राक् प्रसाधितत्वात् । नापि विभिन्नकालत्वम् । घटादीनां तच्छब्देभ्यः प्रागपि सत्त्वप्रतीतेः । नापि विभिन्नाकारवत्वम् । तत्र तस्य सकलजनप्रसिद्धत्वात् । ननु तत्तादात्म्याभावे कथमतोऽर्थप्रतीतिरित्ययुक्तम् । तदभावेऽप्यस्याः सङ्केतसामर्थ्यादुपजायमानत्वात् । शब्दपरम्परातो हि शब्दानां सहजयोग्यतायुक्तानामर्थप्रतीतिप्रसाधकतमत्वम् । काष्ठादीना पाकप्रसाधकत्ववत् । तन्न तत्र तादात्म्य घटते ॥२॥ ॥ इति शब्दार्थयोस्तादात्म्यनिषेधः ॥ * * ६. शब्दपौद्गलिकत्ववादः शब्दोऽपौगलिक स्पर्शशून्याश्रयत्वात् । तथात्रैव पक्षे अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् , पूर्व पश्चाच्चावयवानुपलब्धेः, सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद् , गगनगुणत्वाच्च ॥५॥ न चास्य गगनगुणत्वमसिद्धम् । तथाहि-शब्दः क्वचिदाश्रितो गुणत्वाद् रूपादिवत् ॥१॥ न चास्य गुणत्वमसिद्धम् । शब्दी गुणः । द्रव्यकर्मा
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy