SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विविधमतस्थापकोत्थापकानुमानसन्ग्रहः लक्षण्यम् असतोऽपि तथात्वात् । न चासद्वैलक्षण्यं सतोऽनिर्वचनीयत्वापातात् नापि सदसद्वैलक्षण्यम् । सदसतो. प्रत्येकमनिर्वचनीयत्वात् । न च सद्विलक्षणत्वे सति असद्विलक्षणत्वम् । तथाभूतस्य क्वाप्यदर्शनात् प्रमाणाभावाच्चेति चेत् । न ख्यातिविशेषविषयत्वे बाध्यत्वानुपपत्तिस्तथात्वसाधिका । तथाहि खपुष्पसमत्वेऽपरोक्षत्वानुपपत्तिरात्मसमत्वे बाधाऽनुपपत्तिर्न चान्यत्र दृष्टमेवान्यत्राश्रयणीयं दर्शनाऽनवस्थापातात् । उक्तं च सत्त्वे न भ्रान्तिबाधौ स्तां नासत्त्वे ख्यातिबाधकौ । सदसद्भ्यामनिर्वाच्याविद्या वेद्यैः सह भ्रमाः ॥ तथाऽनिर्वाच्यः प्रपञ्चः । अपरोक्षप्रतिभासवाधाऽन्यथाऽनुपपत्तेः । इति प्रपञ्चस्यानिर्वाच्यत्वसाधकमनुमानम् ॥ ॥ इति परब्रह्मसाधकान्यनुमानानि ॥ प्रपञ्चो मिथ्या न भवति । असद्विलक्षणत्वात् । आत्मवत् ॥१॥ प्रतिभासो ग्रामारामादिषु प्रविष्टस्तान् विना तस्य कुत्राप्यदृश्यमानत्वात् । यद् यद्विना कुत्रापि न दृश्यते तत् तत्रैवास्ति । यथा परब्रह्मस्वरूपं परब्रह्मणि घटादिस्वरूपं घटादिषु । न दृश्यते च तान् विना कुत्रापि प्रतिभासः । तस्मात् तेष्वेव विद्यते । ततश्च प्रपश्चः सत्य एव ॥२॥ प्रपञ्चस्तत्त्वाऽऽवेदकप्रमाणविषयो धर्मित्वादात्मवत् ॥३॥ विवादाधिरूढः प्रपञ्च सत्य प्रमाणसिद्धत्वादात्मवत् ॥४॥ अयं घट एतद्घटनिष्ठबाध्यमेदातिरिक्तद्रव्याश्रयः । द्रव्यत्वात् पटवत् ॥५॥ प्रपञ्चः सत्यः प्रतिभास्यत्वे सति प्रतीतिजनकत्वात् । यथा परब्रह्म ॥६॥ जलचन्द्र-स्वप्नज्ञानादि भावरूप नैमित्तिकत्वाद् घटवत् ॥१॥ जलबिम्बं भाव सम्यग्गमकत्वादग्निगमकधूमवत् ॥२॥ प्रतिबिम्बं बिम्बाद्वि(दन्यद्वि)लक्षणप्रतीतिग्राह्यत्वात् । यथा मुद्रातः प्रतिमुद्रा। तथा चेदम् । तस्मात् तथा ॥३॥ इदं प्रतिबिम्बस्यार्थान्तरत्वसाधकम् । प्रतिबिम्बस्योत्पादकं कारण जलमेवोपादानकारणं, चन्द्रादिकं तु निमित्तकारणम् । गगनतलावलम्बिनं चन्द्र निमित्तीकृत्य जलादेस्तथापरिणमनात् । स्वप्नज्ञान भाव. । ज्ञानत्वात् । घटज्ञानवत् ॥४॥ इति प्रपञ्चसाधकान्यनुमानानि । जलचन्द्र-स्वप्नज्ञानादीना भावरूपत्वसाधकानि च । ८ शुक्तिरजतादिससनिर्मिणि व्यभिचारवारणाय नाऽसौ धर्मी मिथ्यात्वादिति योज्यम् । ९ वाध्यमेदातिरिक्त° = सत्यमेद
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy