SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अज्ञातकका ॥ विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः ।। १. सर्वजवादः अस्ति सर्वज्ञः सुनिश्चितासम्भवदाधकप्रमाणत्वात् सुखादिवत् ।।१॥ कश्चिदात्मा सकलार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययवात् । यद् यद् ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय तत् तत् साक्षात्कारि । यथाऽपगततिमिरादिप्रतिबन्धलोचनं रूपसाक्षात्कारि । सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा । तस्मात् सकलार्थसाक्षात्कारी । न चायं विशेषणासिद्धो हेतुरागमद्वारेणाशेषार्थग्रहणस्वभावत्वस्यान्मनि प्रसिद्धत्वात् ।।२|| रागादय कस्यचिदत्यन्तमुच्छ्यिन्ते । अस्मदादिषु तदुच्छेदप्रकर्षापकर्पोपलम्भात् । मूर्याद्यावर कजलदपटलवत् ॥३॥ ज्ञानतारतम्यं क्वचिद्विश्रान्तं तर तमशब्दवाच्यत्वात् परिमाणतारतम्यवत् ॥४॥तथा सर्वे भावा कस्यचित् प्रत्यक्षा प्रमेयत्वात् । घटवत् । यस्य च प्रत्यक्षा सर्वज्ञः सः॥५॥ सम्भवति सर्वार्थसाक्षात्कारी । अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् । यो यद्विपयेऽनुपदेशालिङ्गाविसंवाद्यपदेशदायी स तत्साक्षात्कारी । यथा त्वयमनुभूतेऽर्थेऽस्मदादि । अनुपदेशालिङ्गाविसवाद्युपदेशदायी च कश्चित् । तस्मात् तत्साक्षात्कारी । न च तथाविधोपदेशदायित्वत्य वृद्धपरम्परायातत्वादसिद्धं तत्साक्षात्कारित्वम् । तेषा रागादिमत्त्वेन तथाविधोपदेशदानाभावात् ॥६॥ कस्मिंश्चिदसर्वज्ञ सर्वज्ञशब्दो मुख्यसर्वज्ञापेक्ष । गौणत्वात् । माणवकेऽग्नित्ववत् ॥७॥ ज्ञानं कचिदात्मनि प्रकर्षवत् । स्वावरणहान्युत्कर्षे सति प्रकाशकत्वात् । चक्षुर्दीपादिवत् । यत्र च प्रकर्षवज्ञानं स सर्वज्ञ ॥८॥ समस्ति समस्तवस्तुविस्तारगोचरं विगदं प्रत्यक्षदर्शनम् । तदोचरानुमानप्रवृत्ते । इह यद्गोचरानुमानं प्रवर्तते तस्य ग्राहक प्रत्यक्षं समस्ति । यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानमतस्तदवलोकिना विशददर्शननाऽपि भवितव्यम् । तद्वान् सर्वज्ञ' ॥९॥ तथाविधो विवक्षित. कश्चिजीव मम्भवदत्यन्तविशुद्धिकोऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वात् । यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेत स सम्भवढत्यन्तविशुद्धिको यथा क्षारमृत्पु१. यत्र त्र विश्रान्त स सर्वज्ञ । २ न च प्रमेयत्वमसिम । सभावप्रमाणव्यभिचारप्रसक्ते । तथाहि प्रमाणपञ्चकातिक्रान्तस्य हि वस्तुनोऽभावप्रमाणविषयता भवताऽभ्युपगम्यते । गदि च जलधिजलढलप्रमाणादियु प्रमाणपञ्चकातित्रान्तरूपमप्रमेयत्व तदा तेष्वप्यभावप्रमाणविषगत्वान्न चात्र तत्त्वेऽपि साऽसभविनीति । ३. इदं केवलनानसाधकमनुमानम् ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy