SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् नापि वैशेषिकोक्तं तत्त्वमिति । तथाहि—द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायास्तत्त्वमिति । तत्र पृथिव्यप्-तेजोवायवाकाश-काल-दिगा-ऽऽत्म-मनांसीति नवद्रव्याणि । तत्र पृथिव्यप्-तेजोवायूना पृथगद्रव्यत्वमनुपपन्नम् । तथाहि-त एव परमाणवः प्रयोगविप्र(स्र)साभ्या पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति । न चावस्थाभेदेन द्रव्यभेदो युक्तोऽतिप्रसगात् । आकाशकालयोश्च अस्माभिरपि द्रव्यत्वमभ्युपगतमेव । ढिशस्त्वाकाशावयवभूताया अनुपपन्नं पृथगद्रव्यत्वमतिप्रसङ्गदोषादेव । आत्मनः शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति । मनसश्च पुद्गलविशेषतया पुद्गलद्रव्ये अन्तर्भावः परमाणुवत् । भावमनसश्च जीवगुणत्वाद् आत्मन्यन्तर्भाव इति । यदपि तैरभिधीयते यथा पृथिवीत्वयोगात् पृथिवीति तदपि स्वप्रक्रियामात्रमेव । यतो न हि पृथिव्या पृथग्भूतं पृथिवीत्वमस्ति येन तद्योगात् पृथिवी भवेद् इति । अपि तु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकम् । नरसिंहाकारम्(रवद) उभयस्वभावमिति । तथा चोक्तम् नान्वयस्तद्विभेदित्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्ति जात्यन्तरं घटः ॥ तथा न नरः सिंहरूपत्वात् न सिंहो नररूपतः ।। शब्दविज्ञानकार्याणां भेदाजात्यन्तरं हि सः ॥ इत्यादि । अथ रूप-रस-गन्ध-स्पर्शा रूपिद्रव्यवृत्तिविशेषगुणाः । तथा-सङ्ख्याः परिमाणानि पृथक्त्वं सयोगविभागौ परत्त्वापरत्वे इत्येते सामान्यगुणा सर्वद्रव्यवृत्तित्वात् । तथा बुद्धि-सुख-दु.खेच्छा-द्वेष-प्रयत्न-धर्माधर्म-सस्कारा आत्मगुणा । गुरुत्वं पृथिव्युदकयो । द्रव्य(व)त्वं पृथिव्युदकाग्निषु । स्नेहोऽम्भस्येव । वेगाख्यः सस्कारामू(रो मूर्त)द्रव्येष्वेव । आकाशगुणः शब्द इति । तत्र सङ्खयादयः सामान्यगुणाः रूपादिवद् द्रव्यस्वभावत्वेन परोपाधिकत्वाद् गुणा एव न भवन्ति । अथापि स्युस्तथापि गुणानां न पृथगू व्यवस्था । तत्पृथग्भावे द्रव्यस्वरूपहानेः “गुणपर्यायवद् द्रव्यम्" [तत्त्वार्थसूत्र ५. ३७] इति कृत्वा, अतो नान्नरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथगभावः । किञ्च, तस्य भावस्तत्त्वमित्युच्यते । भावप्रत्ययश्च "यस्य गुणस्य हि भावाद द्रव्ये शब्दनिवेगस्तदभिधाने त्वतलौ” इति अनेन भवति । तत्र घटो रक्त उदकस्याहारको जलवान् सर्वै रेव घट उच्यते । अत्र घटस्य भावो घटत्वम्, रक्तस्य भावो रक्तत्वम्, आहारकस्य भाव आहारकत्वम्, जलवतो भावो जलवत्त्वम् इत्यत्र घटसामान्य-रक्तगुण-क्रिया-द्रव्यसंवन्धरूपाणां गुणाना सद्भावात् द्रव्ये पृथुबुध्नो १. तुलना-मादृश्य नरसिंहादौ युक्तं जात्यन्तरे सति । "लो० वा० वाक्याधि० १२५ । ० वाक्यप० २९०, तत्त्वोप० पृ० ११९ ।।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy