SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीमेरुतुङ्गसूरिसंदृन्धः अयमात्मैव ससारकषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ अत एव नामादिकदाग्रहं मुक्त्वा गुणोत्कीर्तनद्वार( रे )णैव देवगुरुधर्मतत्त्वानि सर्वैरपि तत्त्वजैः प्रमाणीकृतानि । तद्यथा- वीतरागः परमात्मस्वरूपो भगवान् अर्हन् श्रीसर्वजो देव । ज्ञानंतपोभ्या पात्रतामापन्न सयमी गुरुः । सर्वज्ञभाषितो दयादिमूलो धर्मः । इत्येतत्त्रयस्यैव ज्ञानश्रद्धाने सम्यक्त्वम् । तदुक्तं श्रीविष्णुपुराणे [६. ६. १] स्वाध्यायसयमाभ्या स दृश्यते पुरुषोत्तम । तत्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ तत्र[६.५.६६] देवविषये-- यत् तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्दिश्यस्वरूपं च पाणिपादाद्यसाम्प्रतम् ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः॥ [६.५.६८] पर' पराणा सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सर्वेश्वर सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ स ज्ञायते येन सदस्तदोषः सिद्धः परो निर्मलरूप एक. । तज्ज्ञानमज्ञानमतोऽन्यदुक्तं स दृश्यते वाऽप्यथ गम्यते वा ।। विश्वकर्मणाप्युक्तम् इन्द्रियर्न जितो नित्यं केवलज्ञाननिर्मलः । [5B] पारं गतो भवाम्भोधेर्यो लोकान्ते वसत्यलम् ।। ज्योतीरूपेण यस्तत्र पुंरूपेणात्र वर्तते । रागद्वेषव्यतिक्रान्तः स एप परमेश्वरः ॥२॥ बौद्धैरप्युक्तम् भग्न मारवलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्ध प्रणमाम्यहम् ॥ १. ज्ञानमध्ये दर्शन ज्ञातव्यम् । --
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy