SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमाणसुन्दरः । "आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः || ” इति १३१ अन्यथाऽनुमानादेरपि तथात्वप्रसङ्गात् । न चास्यानुमानत्वेनानवस्थापत्तिस्तदनुमानलिङ्गा विनाभावस्याप्यन्यस्मादनुमानादवगम इत्यपरापरस्यानुमानस्यापेक्षणात् ततोsनुमानादन्यतम एवादसोयो विकल्पः प्रमाणयितव्य इति तर्कोऽनुमानानं प्रमाणमन्यथा लिङ्गस्य स्वसाध्याविनाभावनियमस्य ततोऽनवगमप्रसङ्गात् । ततोsस्तु स्मरणादेरौपचारिकस्यानुमानस्य प्रामाण्यमेवं मुख्यस्यापीति । अथ मुख्यमनुमानमाह-तत्र साध्याविनाभावनियमलक्षणं साधनम्, ततो निश्चयलक्षणात् साधनादेव साध्यस्य शक्याभिप्रेताप्रसिद्धस्यैव यद् विज्ञानं तदनुमानमिति तन्निश्चयोऽविसवादादेवास्य स्ववेदनेषु प्रामाण्यव्याप्तत्वेन प्रतिपत्तेर्निश्चितव्याप्तिकादर्थादर्थान्तरप्रतिपत्तेश्चेति । अत्र तु बहिर्व्याप्तेरनुमानस्यान्तर्व्याप्तेरर्थापत्तेर्भिन्नप्रमाणत्वमिति न मन्तव्यम्, यतोऽमेऽस्या एवानुमानेऽन्तर्व्याप्तेर्गमकाङ्गत्वेन समर्थयिष्यमाणत्वात् ; ततः 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' इतिवत् 'अग्निरयं दाहशक्तिमान् दाहदर्शनात् ' इतीदमप्यनुमानमेव नान्यदिति । अथ प्रत्यक्षादावनन्तर्भावादभावस्य प्रमाणान्तरत्वं घटाद्यभावेन प्रतीयमानत्वादित्यपि बालविलसितम् । तत्रापि प्रत्यक्षमेव प्रमाणं यतो घटाभावो नाम भूतलस्य कैवल्यमेव नापरोऽप्रतिवेदनात् । तत्रापि 'घटो नास्ति' इत्याकारस्यानुभूयमानघटाविशिष्टतयोपलभ्यमानतत्कैवल्यपरामर्शिनः प्रत्यभिज्ञानत्वेन तदनन्तर्भावानुपपत्तेः 'नास्त्यत्र घटोऽनुपलब्धेर्गगनतामरसवत्' इत्याकारस्याप्यनुमानेऽन्तर्भावान्न प्रमाणान्तरत्व मति प्रमाणपरिमाणनियमः । तत्र त्रैरूप्यं पाञ्चरूप्यं' वा हेतोर्लक्षणमित्यपि बालविलसितम् तदाभासेऽपि सम्भवात्। पक्षधर्मत्वागमकत्वम् यथा 'उदेष्यति शकट कृत्तिकोदयात् ' तदभावश्च शकटे धर्मिण्यदेष्यत्वे साध्ये कृत्तिकोदयस्य हेतोरभावात् । कालस्य मुहूर्तधर्मित्वे चेत् तर्हि ‘भूतलं पर्वताग्निमद् अयस्कार कुटीरधूमत्वात्' इत्युभयगर्भ विस्तारिणो भूतलस्य धर्मित्वेन हेतो. पक्षधर्मतोपपत्तेः । सपक्षे सत्त्वमगमकम्, यथा विनैनमपि केवलयतिरेकिणो १ पक्षधर्मत्वम् १ सपक्षे सत्त्वम् २ विपक्षाद् व्यावृत्ति ३ भवाधितविषयत्वम् ४ असत्प्रतिपक्षत्वम् ५ चेति । २ हेतोर्य पक्षेन सम्बन्ध पक्षे व्याप्यवृत्तित्व तत् पक्षधर्मत्वम् ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy