SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीमुनीश्वरसूरिनिबद्धः अपराणीन्द्रियाणि प्राप्यकारीणि । यथा श्रोत्रेन्द्रियं शब्दपुद्गलं प्राप्यैवार्थ मृहीयादिति । तावच्चक्षुरप्राप्यकारि, अन्येन्द्रियबलवान्मनोवत् । अन्येन्द्रियासदृशं चैतस्त(त्तस्मादप्राप्यकार्येव । अनिन्द्रियमनित्यमात्मपरिमाणं मन. । सांत्र्यावहारिकं मानसमपि प्रत्यक्षम् । परमते तु नित्यमणुपरिमाणं मन इति । चेतः सनातनति]या कलितस्वरूप सर्वापकृष्टपरमाणुपवित्रितं च। प्रायः प्रियप्रणयिनीप्रणयातिरकादेतत् करोति हृदये न तु तर्कतज्जः ।। [ इत्यपि सटऋविटङ्क । पारमार्थिकनाने कैवल्ये ह्यान्ममात्राधीनत्वादिति विभड्गिप्रतिपातिज्ञानस्य संक्षिप्तत्वादेव मनसो नित्यता स्वानेऽपि दुर्लभा स्यादित्युत्तानार्थः । इन्द्रियानिन्द्रियनिमित्तमपि प्रत्यक्ष चतुर्धा -अवग्रहेहावायधारणामेदादेकशश्चतुर्विकल्पम् । एकसामा(म)विक. सत्तामात्रग्राहकोऽवग्रहः । विशेषाकाक्षणमीहा । विशेषा(घ)निर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा । ज्ञप्ती हि क्रमोऽमीषामयमेवान्यथा प्रमेयाऽनवगतिप्रसङ्गः । सामान्यमात्रग्राही प्रथमसामयिको अर्थावग्रहः क्रमाविर्भूतापूर्वापूर्ववस्तुपर्यायप्रकाशकः स्यात् , सशयादिनिरासान्यथाऽनुपपत्ते. | क्वचिदवग्रहादीनामाशूत्पादाज्ञानोत्पत्तिक्रमस्यानुपलक्षणं हि युगपन्नागवल्लीदलशतव्यतिमेदवच्चेति । सांव्यवहारिकं प्रत्यक्षम् । तत्र पारमार्थिकं चात्ममात्रापेक्षं प्रत्यक्षम् । तद् द्विविधम् - विकलं सकलं च । [विकलम्] अवधि-मनःपर्याय मेदात् । क्षेत्रावधि रूपिदव्यगोचरम् । भव-गुणप्रत्यय ह्यवधिज्ञानम् । संयमविशुद्धेरुत्पन्न मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् । सकलं तु द्रव्य-क्षेत्र-काल-भावसामग्रचा क्षपकश्रेण्युपशमश्रेणिभ्यां च क्षीणमोहगुणस्थानोदये ज्ञानावरणीयान्तरायमोहनीयासातावेदनीयकर्मप्रकृतिषु समूलकाषंकषितासु आयुर्नामगोत्रसातावेदनीयकर्मप्रकृतिष्ठ दग्धर प्रायासु सत्सु करकलितामलकीफलवत् समस्तवस्तुपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । अत्र पुरुषविशेषप्रकृतय - अधमाधमः, अधमः, विमध्यमः, मध्यम, उत्तमः, उत्तमोत्तमः, इत्येताग्विधविष्वड्यड्मति()विविधबुधसविशेषपुरुषविशेषस्य नि.शेषिताशेषदोपत्य हि केवलित्वम् । आत्मनः केवलावस्थानमिति यावत् । तथा सति
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy