SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ साधुविजय निवद्धम् अतोऽनेकदो पदूपितलक्षणाधीनोपाधेर्हेत्वाभासातिरिक्तदूषणत्वं नोपपत्तिपद्धतिपदवीमवगाहते विचारासहत्वादाकाशकुशेशयसुरभित्वसाध्यवदिति । अत एव प्रत्यक्षपरोक्षप्रमाणप्रगुणीभवदादेशद्वैतादिष्ट स्पष्टाभङ्ग सप्तभङ्ग्याविर्भावितवस्त्वनन्तधमात्मका (क)त्वोपस्थापितार्थक्रियोपपत्तिशक्तिव्यक्तीभव (त्) स्याद्वादमहावादा (द) व्यासोपन्यासविस्मयीकृतभूमण्डलाखण्डलदत्तसर्वज्ञपुत्रविरुदैर्वादिमदविद्रावणोन्निद्रैरत एव जैनेन्द्रचन्द्रैरुपाधौ व्यभिचारातिरिक्तदूषणत्वं नाङ्गीक्रियते । जनेन्द्राणां च पुरतः का एता विभीषिकाः यतः उक्तं स्याद्वादरत्नाकरे १०० - तावदेव लभते प्रतिष्ठितं प्रोक्तमेतदखिलं कुतीर्थिकैः । यावदेव न जिनेन्द्रसूनवो व्यञ्जयन्ति दृढयुक्तिडम्बर [म् ] ॥ अत एव सर्वापरतीर्थिष्वहंप्रथमत् ( त )स्तानेव वृणुते साधुविजयलक्ष्मीः । * * * जिनहर्षं गुरुं नत्वा स्मृत्वा सारस्वतं महः । पराक्षिप्तेन सत्पदोपन्यासाय प्रयत्यते ॥ इह हि कश्चिदखर्वगर्वपर्वतारोहणाग्रणीः प्रवीणप्रामाणिका(क)ग्रामणीः प्राथमिकप्रामाणिकं स्वगुरुचरणपरिचर्याचरणप्रसाद संवाद सोदरं सिद्धसारस्वतोद्गारानुकारं गङ्गापगोत्तुङ्गचङ्गरङ्गतरङ्गभङ्गीसुभगं तत्तदनवसथ (तत्राप्यनवद्यसद्य) स्कप्रा (प्र) माणप्रयोगं व्याचक्षाणं विचक्षणं वीक्ष ( क्ष्य) अन्वयिव्यतिरेकिहेतुमहाविद्यानुमानवक्रच्छायानुमानहेतु खण्ड [न] उपाधिप्रत्युपाधिकर्षणोपायतत (त्) खण्डनादिना तत्पराजयाशक्तमात्मानं मन्यमानः स्वचण्डतुण्डताण्डवाडम्बरेण सर्वमयथावन्मन्यमानः स्वाखण्डप्रचण्डपाण्डित्यप्रकाशनाय स्वोत्कर्षाकर्षकप्रतिज्ञापदानि पापठीति शठतामठः । यथा आकल्पकालं येऽनल्पविकल्पैर्जल्पनक्षमाः । वय [व]दामस्ते पचैरनिन्द्यैस्तत्र के परे ॥ अन्यच्च घटीं वा यामं वा दिवसमपि वा जल्पितुमलं क्षमास्तेषां पङ्क्तौ न खलु गणनीया वयममी । स्फुटै सारैश्चञ्चद्बहुविधरसैः पद्यनिव हैयुगान्तं यावद्ये प्रभणितुमलं ते खलु वयम् ॥
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy