SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९१ हेतुखण्डनपाण्डित्यम् । व्यभिचाराभावेन साध्यधर्माविनाभावी भवति, स उपाधिः, यथा यत्र साध्यं तत्रोपाधिः, यत्रोपाधिस्तत्र साध्यम् । एतावतोपाधिव्यावृत्तौ साध्यधर्मस्य व्यावृत्तिर्भवति । हेतुस्तु तत्र पक्ष एव तिष्ठतीति मिथः सम्बन्धशून्यत्वं सिद्धम् । तथा च सर्वपदसार्थक्यम् । एवंविधं धर्मं दृष्टान्तस्थले भावयति । यथा 'वेदविहिता हिंसा अधर्मसाधनं , हिंसात्वात् , ब्राह्मणहिंसावत्' इत्यत्र ब्राह्मणहिंसालक्षणे सपक्षे उपाधिधर्मो विचार्यते । तथाहि-अन्वयव्यतिरेकिव्याप्यन्यापकरूपेणाधर्मसाधनरूपसाध्येन सहाविनाभावी विमतहिंसारूपपक्ष-देवपूजनरूपविपक्षाभ्यां व्यावृत्तः केवलब्राह्मणहिंसारूपसपक्षे निषिद्धत्वरूपधर्म एव विचार्यमाण उपपत्तिपद्धतिमुपैत्ति । तेनात्र निषिद्धत्वमेवोपाधिः । उपाधियोजनाप्रकारश्च पूर्वोक्तयुक्त्या चिन्त्यः । एवं साध्याविनाभावी, पक्षविपक्षावृत्तिधर्मः सपक्षे सशोध्यासाधारणधर्म उपाधित्वेनोद्भाव्यः । यत्रोपाधिस्तत्रासिद्धविरुद्धानकान्तिकसत्प्रतिपक्षादयो दोषा सम्भवन्तीति उपाधेर्दूषणत्वम् । तच्च दश्यते । यथानुमानेऽन्वयव्याप्तौ यत्र व्याप्यं तत्र व्यापकम् । व्यतिरेके व्याप्यीभूतव्यापकनिवृत्तौ व्यापकीभूतव्याप्यनिवृत्तिरिति प्रामाणिकसमयः । तत्रान्वये तथात्वाभावेऽनैकान्तिकत्वं यथा प्रतीयमानत्वेन प्रपञ्चमिथ्यात्वसाधने परब्रह्मणा व्यभिचारात् । व्यतिरेके तु व्याप्यत्वासिद्धत्वं यथा धूमध्वजाभावे धूमवत्त्वमिति । तथैवं सोपाधिकानुमानेऽपि । तत्प्राथमिकप्रामाणिकमतिव्युत्पत्त्यर्थ विस्तरतो दय॑ते । हिंसायां विमतहिंसाऽधर्मत्वसाध्ये निषिद्धत्वोपाधिर्यथा यत्र यत्र हिंसात्वं तत्र तत्र निषिद्धत्वमिति नास्ति । पक्षेणैव व्यभिचारादनैकान्तिकत्वम् । तद्वयतिरेकव्याप्तौ साध्यमादाय व्यावर्तमानोपाधौ साध्येन सह हिंसालक्षणसाधनस्याव्यावत्तत्वाद् व्याप्यत्वासिद्धत्वं निश्चितान्यथानुपपत्तिलक्षणाभावात् । तथा तथैव साध्यमादाय व्यावर्तमानोपाधौ साध्यात्यन्ताभावात् पक्षस्यैव विपक्षत्वं जातम् । हेतोस्तथैव तत्र वर्तमानाद् विरुद्धत्वम् । यथा वेदविहिता हिंसाऽधर्मसाधन हिंसात्वादिति न केनापि दृष्टमिष्ट वा । एवं सपक्षेऽपि सत्त्वात् तथा कान्तिकत्वमपि, ब्राह्मणहिंसादावपि वर्तनादिति । एवमेवोपाधिना प्रतिपन्थिप्रमाणाविर्भावनेन सत्प्रतिपक्षत्वम् । एवं बाधितविषयत्वाद्यपि समर्थनीयमिति स्थितम् । इत्युपाधिप्रकाशो वादिविजयनाम्नि त्रिविधहेतुखण्डने । तृतीयोऽधिकारः । * *
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy