SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ हेतुखण्डनपाण्डित्यम् । ___ दयते, यथा 'यत् सशरीरजन्यं न भवति तद् बुद्धिमत्कर्तृकमपि न भवति यथा व्योम' । एतस्य प्रतिपक्षानुमानं यथा 'भू-भूधरादिकं बुद्धिमत्कर्तृकं न भवति, सशरीराजन्यत्वात् , व्योमादिवत्' इति प्रकरणसमत्वम् ।। ___ व्याघातश्च प्राग्दर्शितः । अथेतरेतराश्रयो दयते, यथा तस्य माहात्म्यविशेषाददृश्यशरीरत्वे इतरेतराश्रयः, पिशाचादिवच्चादृश्यशरीरत्वेन तु सशयः, एवं च मूलानुमानदोषभावना स्वयमेव कार्या । प्रकृतत्वादेवैवं मनाग् दर्शितं ज्ञेयमिति स्थितम् । इति वादिविजयनाम्नि प्रकरणे त्रिविधहेतुखण्डनाधिकारः प्रथमः । * * २. उपाधिविवेकः ननु हेतुखण्डनप्रथमाधिकारे सोपाधित्वेन हेतोरप्रयोजकत्वमवादि वादिवृन्दारकपुरन्दरैः । तत्रेदं परीपृच्छयते । उपाधेः किं रूपम् , किं च तस्य लक्षणमिति ? प्रत्याहतः प्रतिवाद्याह । “अन्यत्रगतो धर्मोऽन्यत्रोपचर्यमाण उपाधिरभिधीयते । यथा जपाकुसुमससर्गादारुण्यशून्ये स्फटिकोपलेऽरुणत्वं प्रतीयते तथोपाधौ वर्तमानं व्याप्यत्वं व्याप्यत्वाभाववति हेतौ प्रतीयते । इति व्याप्तिदूरीकरणेनोपाधेर्दूषणत्वम् । तस्योपाधेरिदं लक्षणम्-'साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधि' । सुखावबोधार्थमिदं लक्षणं व्यवच्छिद्यते । उपाधिशब्देन लक्ष्यनिर्देशः । इतरेण च लक्षणनिर्देशः । साधनाव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्र यत्र कृतकं(तकत्वं) तत्र तत्र द्रव्यत्वं नास्ति गुणादौ व्यभिचारात्' इति साधनाव्यापकत्वेन द्रव्यत्वमुपाधिः स्यात् । तन्निरासार्थ साध्यव्याप्तिपदम् । साध्यव्याप्तिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्रानित्यत्वं तत्र प्रमेयत्वम्' इति व्याप्तिसम्भवेन प्रमेयत्वमुपाधिः स्यात् । तन्निरासार्थ साधनाव्यापकपदम् । साधनाव्यापकः साध्यव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वात् घटवत्' इत्यत्रानुमाने 'यत्र यत्रानित्यत्वं तत्र तत्र शब्देतरत्वम्' इति साध्यव्याप्तिसम्भवेन 'यत्र कृतकत्वं तत्र शब्देतरत्वमिति नास्ति, पक्षेण व्यभिचारात्' इति साधनाव्यापकत्व
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy