SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ हेतुखण्डनपाण्डित्यम् । मैस्तदाऽव्यवधानेन स्वापेक्षणलक्षण आत्माश्रयपातः । तथा च कथं स्वसाध्यसिद्वौ साधकतममिदम् । तद्भावना चैवम्-निश्चितस्वरूपत्वे निश्चितस्वरूपत्वं न वर्तते, आत्माश्रयपातात् यथा प्रमेयत्व-सत्त्वादिषु । जातिसम्बन्धबाधकाद्वा तथा अनापीति । अन्यच्च लोकेऽपि सुशिक्षितो विचक्षणः स्वस्कन्धाधिरोहणाय न चणः । नापि निशिततरधाराकरालकरवालं स्वं छेत्तुमाहितव्यापारमिति केनापि दृष्टमिष्टं वेति । अथैतद्दोषसरोषविषमविषधर विषावेगज्वालाविगलितप्रतिभाविभवैर्द्वितीयः पक्षः कक्षीकरिष्यते परोलक्षदक्षविख्याततार्किकचक्रचक्रवर्तिपर्षदि सहर्षम् , तदा तस्याऽपि प्रामाण्यं स्वतः परतो वेति विकल्पौ जन्मान्तरोपाजितधर्माधर्माविवाऽव्याहतप्रसरौ भवत' पुरतोऽवतिष्ठेते । तत्र नाधः सद्योनिरवद्यविद्याविनोदाय, पूर्ववदात्माश्रयपातात् । भावना पूर्ववदिति । द्वितीयश्चेत् तदा तस्य प्रामाण्य स्वतः परतो वा । । स्वतः प्रामाण्ये पूर्ववदात्माश्रयः । परतश्चेत् तदा भवन्त एव प्रष्टव्या -- तत्र परशब्देन किमावस्तृतीयो वा ? इति विकल्पयुगल कुलाचलदन्ताबलस्थूलदन्तमुशलयुगलमिवावतरति । तत्र न पौरस्त्यो वास्तवस्वस्तिमच्छ्रियं तन्तनीति भवता दुरुत्तरेतरेतराश्रयाजस्रविश्रामावासाश्रयात् , द्वयोरन्योन्यापेक्षणलक्षणत्वात् तस्य । तद्भावना चैवम्-स्वनिश्चितस्वरूपप्रामाण्यसिद्धौ परशब्दोपात्ताद्यस्य प्रामाण्यसिद्धिः, परशब्दसंगृहीताद्यस्य प्रामाण्यसिद्धौ द्वितीयस्य प्रामाण्यसिद्धिरिति । अथ तृतीयादिति विकल्पो विवादशब्दगोचरीचरीकी(कि)यते स्ववचश्चातुर्याहार्यमतिभिः, तदा तस्यापि स्वनिश्चायकप्रामाण्यं स्वतः परतो वा ? इति विकल्पद्वयं पूर्ववदुपढौकते । तत्र नाद्योऽनवद्यः सद्यस्कोत्तरचतुराणाम् । स्वतः प्रामाण्यसिद्धौ पूर्ववदात्माश्रयस्योद्भटत्वम् । अथ परत इति वावद्यते वावदूकैस्तदा पर इति पदेन किमाद्यो द्वितीयश्चतुर्थो वेति विकल्पत्रयी पवित्रत्रिनेत्रनेत्रत्रयीवात्र त्रोकते । तत्र प्रथमस्तथ्यपथ्यप्रीतिपात्रतयाऽतिथीक्रियते, तदा धाराकरालातिवक्रचक्रकातिपातपातितमस्तकः स्वसाध्यसिद्धिप्राणप्रियां प्रणयिनी प्रीतिपात्रं कथं प्रापयिष्यति । तस्य चेदं लक्षणमाचक्षते विचक्षणाः-पूर्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वं चक्रकमिति । तस्य चैवं भावना - पूर्वो निश्चितस्वरूपो विकल्पः स्वप्रामाण्यापादनाय द्वितीयं प्रमाणमपेक्षते, स्वयं प्रमाणीकरणे पूर्वोक्तदोषात् , द्वितीयोऽप्यप्रमाण पूर्वस्य प्रामाण्यमापादयितु न शक्नोति, यथा स्वयं दरिद्रो न परम् ईश्वरीकर्तुम् , तेन द्वितीयः स्वप्रामाण्याय तृतीयमपेक्षते; सोऽप्यप्रामाण्यादन्यतः स्वप्रमाणीकरणायुक्तौ(क्तो)ऽप्रमाणीभूतमाद्यमपेक्षते, तथा पूर्ववत् सोऽपि द्वितीयम्, सोऽपि तत्कृते तृतीयम्, सोऽपि पूर्वोक्तयुक्त्या पूर्वमित्याद्यनुलोमापादनेन चक्रक
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy